नारद उवाच 001
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः 001a
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः 001c
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः 002a
सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव 002c
अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ 003a
अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् 003c
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन 004a
दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् 004c
भगवन्द्रष्टुमिच्छामि पितामहसभामहम् 005a
येन सा तपसा शक्या कर्मणा वापि गोपते 005c
औषधैर्वा तथा युक्तैरुत वा मायया यया 006a
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् 006c
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् 007a
अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम् 007c
एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप 008a
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा 008c
न वेद परिमाणं वा संस्थानं वापि भारत 009a
न च रूपं मया तादृग्दृष्टपूर्वं कदाचन 009c
सुसुखा सा सभा राजन्न शीता न च घर्मदा 010a
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत 010c
नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः 011a
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा 011c
अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा 012a
दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् 012c
तस्यां स भगवानास्ते विदधद्देवमायया 013a
स्वयमेकोऽनिशं राजल्ँलोकाल्ँलोकपितामहः 013c
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् 014a
दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा 014c
भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः 015a
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही 015c
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत 016a
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः 016c
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् 017a
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च 017c
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः 018a
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः 018c
आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा 019a
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः 019c
शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च 020a
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च 020c
मन्त्रो रथन्तरश्चैव हरिमान्वसुमानपि 021a
आदित्याः साधिराजानो नानाद्वन्द्वैरुदाहृताः 021c
मरुतो विश्वकर्मा च वसवश्चैव भारत 022a
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ 022c
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव 023a
अथर्ववेदश्च तथा पर्वाणि च विशां पते 023c
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः 024a
ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः 024c
सावित्री दुर्गतरणी वाणी सप्तविधा तथा 025a
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा 025c
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा 026a
भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते 026c
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च 027a
अर्धमासाश्च मासाश्च ऋतवः षट्च भारत 027c
संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः 028a
कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम् 028c
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा 029a
कालका सुरभिर्देवी सरमा चाथ गौतमी 029c
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि 030a
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः 030c
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा 031a
सुपर्णनागपशवः पितामहमुपासते 031c
देवो नारायणस्तस्यां तथा देवर्षयश्च ये 032a
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा 032c
यच्च किञ्चित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् 033a
सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप 033c
अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् 034a
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव 034c
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः 035a
प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् 035c
अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा 036a
यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा 036c
महाभागानमितधीर्ब्रह्मा लोकपितामहः 037a
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते 037c
प्रतिगृह्य च विश्वात्मा स्वयम्भूरमितप्रभः 038a
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप 038c
तथा तैरुपयातैश्च प्रतियातैश्च भारत 039a
आकुला सा सभा तात भवति स्म सुखप्रदा 039c
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता 040a
ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा 040c
सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा 041a
सभेयं राजशार्दूल मनुष्येषु यथा तव 041c
एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव 042a
तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा 042c
043 युधिष्ठिर उवाच
प्रायशो राजलोकस्ते कथितो वदतां वर 043a
वैवस्वतसभायां तु यथा वदसि वै प्रभो 043c
वरुणस्य सभायां तु नागास्ते कथिता विभो 044a
दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा 044c
तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा 045a
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः 045c
पितामहसभायां तु कथितास्ते महर्षयः 046a
सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि 046c
शतक्रतुसभायां तु देवाः सङ्कीर्तिता मुने 047a
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः 047c
एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने 048a
कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः 048c
किं कर्म तेनाचरितं तपो वा नियतव्रतम् 049a
येनासौ सह शक्रेण स्पर्धते स्म महायशाः 049c
पितृलोकगतश्चापि त्वया विप्र पिता मम 050a
दृष्टः पाण्डुर्महाभागः कथं चासि समागतः 050c
किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् 051a
त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे 051c
052 नारद उवाच
यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो 052a
तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः 052c
स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम् 053a
तस्य सर्वे महीपालाः शासनावनताः स्थिताः 053c
तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् 054a
शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर 054c
स विजित्य महीं सर्वां सशैलवनकाननाम् 055a
आजहार महाराज राजसूयं महाक्रतुम् 055c
तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया 056a
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् 056c
प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः 057a
यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् 057c
अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा 058a
प्रासर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान् 058c
भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः 059a
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् 059c
059e तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत्
एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते 060a
तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ 060c
समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् 061a
अभिषिक्तः स शुशुभे साम्राज्येन नराधिप 061c
ये चान्येऽपि महीपाला राजसूयं महाक्रतुम् 062a
यजन्ते ते महेन्द्रेण मोदन्ते सह भारत 062c
ये चापि निधनं प्राप्ताः सङ्ग्रामेष्वपलायिनः 063a
ते तत्सदः समासाद्य मोदन्ते भरतर्षभ 063c
तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् 064a
तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः 064c
पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः 065a
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः 065c
समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः 066a
राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत 066c
तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव 067a
गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् 067c
बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् 068a
छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः 068c
युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् 069a
किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम् 069c
एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर 070a
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे 070c
070e भव एधस्व मोदस्व दानैस्तर्पय च द्विजान्
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि 071a
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति 071c
072 वैशम्पायन उवाच
एवमाख्याय पार्थेभ्यो नारदो जनमेजय 072a
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः 072c
गते तु नारदे पार्थो भ्रातृभिः सह कौरव 073a
राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत 073c