नारद उवाच 001
सभा वैश्रवणी राजञ्शतयोजनमायता 001a
विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा 001c
तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा 002a
शशिप्रभा खेचरीणां कैलासशिखरोपमा 002c
गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते 003a
दिव्या हेममयैरुच्चैः पादपैरुपशोभिता 003c
रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा 004a
सिताभ्रशिखराकारा प्लवमानेव दृश्यते 004c
तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः 005a
स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः 005c
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते 006a
दिव्यपादोपधाने च निषण्णः परमासने 006c
मन्दाराणामुदाराणां वनानि सुरभीणि च 007a
सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः 007c
नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च 008a
मनोहृदयसंह्लादी वायुस्तमुपसेवते 008c
तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः 009a
दिव्यतानेन गीतानि गान्ति दिव्यानि भारत 009c
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता 010a
चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला 010c
विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा 011a
वर्गा च सौरभेयी च समीची बुद्बुदा लता 011c
एताः सहस्रशश्चान्या नृत्तगीतविशारदाः 012a
उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः 012c
अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा 013a
अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः 013c
किन्नरा नाम गन्धर्वा नरा नाम तथापरे 014a
मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः 014c
कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः 015a
कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः 015c
वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः 016a
अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः 016c
पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः 017a
वृक्षवास्यनिकेतश्च चीरवासाश्च भारत 017c
एते चान्ये च बहवो यक्षाः शतसहस्रशः 018a
सदा भगवती च श्रीस्तथैव नलकूबरः 018c
अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः 019a
आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे 019c
भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः 020a
उमापतिः पशुपतिः शूलधृग्भगनेत्रहा 020c
त्र्यम्बको राजशार्दूल देवी च विगतक्लमा 021a
वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः 021c
मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः 022a
नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः 022c
वृतः सखायमन्वास्ते सदैव धनदं नृप 022e
सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा 023a
पितामहसभां राजन्कथयिष्ये गतक्लमाम् 023c