नारद उवाच 001
युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा 001a
प्रमाणेन यथा याम्या शुभप्राकारतोरणा 001c
अन्तःसलिलमास्थाय विहिता विश्वकर्मणा 002a
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता 002c
नीलपीतासितश्यामैः सितैर्लोहितकैरपि 003a
अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः 003c
तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः 004a
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः 004c
सा सभा सुखसंस्पर्शा न शीता न च घर्मदा 005a
वेश्मासनवती रम्या सिता वरुणपालिता 005c
यस्यामास्ते स वरुणो वारुण्या सह भारत 006a
दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः 006c
स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः 007a
आदित्यास्तत्र वरुणं जलेश्वरमुपासते 007c
वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा 008a
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् 008c
कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ 009a
मणिमान्कुण्डलधरः कर्कोटकधनञ्जयौ 009c
प्रह्लादो मूषिकादश्च तथैव जनमेजयः 010a
पताकिनो मण्डलिनः फणवन्तश्च सर्वशः 010c
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर 011a
उपासते महात्मानं वरुणं विगतक्लमाः 011c
बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः 012a
प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः 012c
सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः 013a
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा 013c
विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः 014a
दशग्रीवश्च वाली च मेघवासा दशावरः 014c
कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः 015a
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः 015c
स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः 016a
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः 016c
ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा 017a
उपासते महात्मानं सर्वे सुचरितव्रताः 017c
तथा समुद्राश्चत्वारो नदी भागीरथी च या 018a
कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी 018c
विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती 019a
इरावती वितस्ता च सिन्धुर्देवनदस्तथा 019c
गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा 020a
एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च 020c
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर 021a
पल्वलानि तडागानि देहवन्त्यथ भारत 021c
दिशस्तथा मही चैव तथा सर्वे महीधराः 022a
उपासते महात्मानं सर्वे जलचरास्तथा 022c
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः 023a
स्तुवन्तो वरुणं तस्यां सर्व एव समासते 023c
महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः 024a
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते 024c
एषा मया सम्पतता वारुणी भरतर्षभ 025a
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु 025c