नारद उवाच 001
कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् 001a
वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह 001c
तैजसी सा सभा राजन्बभूव शतयोजना 002a
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव 002c
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी 003a
नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी 003c
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् 004a
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत 004c
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः 005a
रसवच्च प्रभूतं च भक्ष्यभोज्यमरिन्दम 005c
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः 006a
रसवन्ति च तोयानि शीतान्युष्णानि चैव ह 006c
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः 007a
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते 007c
ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः 008a
त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः 008c
अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः 009a
प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः 009c
ऐडो मरुत्तः कुशिकः साङ्काश्यः साङ्कृतिर्भवः 010a
चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः 010c
भरतस्तथा सुरथः सुनीथो नैषधो नलः 011a
दिवोदासोऽथ सुमना अम्बरीषो भगीरथः 011c
व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः 012a
रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः 012c
रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी 013a
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः 013c
औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः 014a
अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः सञ्जयो जयः 014c
भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः 015a
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः 015c
कपोतरोमा तृणकः सहदेवार्जुनौ तथा 016a
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः 016c
अलर्कः कक्षसेनश्च गयो गौराश्व एव च 017a
जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा 017c
भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा 018a
वैन्यो राजा वारिषेणः पुरुजो जनमेजयः 018c
ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा 019a
इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः 019c
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् 020a
अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा 020c
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः 021a
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः 021c
शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् 022a
शन्तनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव 022c
उशद्गवः शतरथो देवराजो जयद्रथः 023a
वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा 023c
अथापरे सहस्राणि ये गताः शशबिन्दवः 024a
इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः 024c
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः 025a
तस्यां सभायां राजर्षे वैवस्वतमुपासते 025c
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च 026a
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः 026c
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये 027a
स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे 027c
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः 028a
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः 028c
कालस्य नयने युक्ता यमस्य पुरुषाश्च ये 029a
तस्यां शिंशपपालाशास्तथा काशकुशादयः 029c
उपासते धर्मराजं मूर्तिमन्तो निरामयाः 029e
एते चान्ये च बहवः पितृराजसभासदः 030a
अशक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा 030c
असम्बाधा हि सा पार्थ रम्या कामगमा सभा 031a
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा 031c
प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत 032a
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः 032c
शान्ताः सन्न्यासिनः सिद्धाः पूताः पुण्येन कर्मणा 033a
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः 033c
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः 034a
सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः 034c
गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः 035a
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः 035c
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः 036a
दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः 036c
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् 037a
उपासते महात्मानं रूपयुक्ता मनस्विनः 037c
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः 038a
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् 038c