नारद उवाच 001
शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता 001a
स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा 001c
विस्तीर्णा योजनशतं शतमध्यर्धमायता 002a
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता 002c
जराशोकक्लमापेता निरातङ्का शिवा शुभा 003a
वेश्मासनवती रम्या दिव्यपादपशोभिता 003c
तस्यां देवेश्वरः पार्थ सभायां परमासने 004a
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत 004c
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः 005a
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह 005c
तस्यामुपासते नित्यं महात्मानं शतक्रतुम् 006a
मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः 006c
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा 006e
एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः 007a
उपासते महात्मानं देवराजमरिन्दमम् 007c
तथा देवर्षयः सर्वे पार्थ शक्रमुपासते 008a
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः 008c
तेजस्विनः सोमयुजो विपापा विगतक्लमाः 008e
पराशरः पर्वतश्च तथा सावर्णिगालवौ 009a
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः 009c
दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः 010a
उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः 010c
हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः 011a
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः 011c
वातस्कन्धो विशाखश्च विधाता काल एव च 012a
अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः 012c
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः 013a
ईशानं सर्वलोकस्य वज्रिणं समुपासते 013c
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः 014a
समीकः सत्यवांश्चैव प्रचेताः सत्यसङ्गरः 014c
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः 015a
मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः 015c
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः 016a
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः 016c
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् 016e
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती 017a
अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव 017c
जलवाहास्तथा मेघा वायवः स्तनयित्नवः 018a
प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः 018c
अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा 019a
भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत 019c
यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः 020a
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते 020c
तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः 021a
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि 021c
रमयन्ति स्म नृपते देवराजं शतक्रतुम् 021e
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा 022a
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् 022c
ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा 023a
विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः 023c
स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे 024a
बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह 024c
एते चान्ये च बहवो यतात्मानो यतव्रताः 025a
विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः 025c
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा 025e
एषा सभा मया राजन्दृष्टा पुष्करमालिनी 026a
शतक्रतोर्महाराज याम्यां शृणु ममानघ 026c