वैशम्पायन उवाच 001
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् 001a
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः 001c
भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम् 002a
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया 002c
राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः 003a
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् 003c
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो 004a
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः 004c
एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च 005a
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् 005c
नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः 006a
अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः 006c
भवान्सञ्चरते लोकान्सदा नानाविधान्बहून् 007a
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः 007c
ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित् 008a
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः 008c
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् 009a
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा 009c
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता 010a
सभा मणिमयी राजन्यथेयं तव भारत 010c
सभां तु पितृराजस्य वरुणस्य च धीमतः 011a
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च 011c
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् 012a
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ 012c
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः 013a
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः 013c
नारदं प्रत्युवाचेदं धर्मराजो महामनाः 014a
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् 014c
किन्द्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः 015a
पितामहं च के तस्यां सभायां पर्युपासते 015c
वासवं देवराजं च यमं वैवस्वतं च के 016a
वरुणं च कुबेरं च सभायां पर्युपासते 016c
एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव 017a
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः 017c
एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम् 018a
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः 018c