वैशम्पायन उवाच 001
तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु 001a
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत 001c
लोकाननुचरन्सर्वानागमत्तां सभामृषिः 002a
नारदः सुमहातेजा ऋषिभिः सहितस्तदा 002c
पारिजातेन राजेन्द्र रैवतेन च धीमता 003a
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः 003c
सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः 003e
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् 004a
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह 004c
अभ्यवादयत प्रीत्या विनयावनतस्तदा 004e
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि 005a
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् 005c
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः 006a
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् 006c
007 नारद उवाच कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः 007a
सुखानि चानुभूयन्ते मनश्च न विहन्यते 007c
कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः 008a
वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु 008c
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा 009a
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे 009c
कच्चिदर्थं च धर्मं च कामं च जयतां वर 010a
विभज्य काले कालज्ञ सदा वरद सेवसे 010c
कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ 011a
बलाबलं तथा सम्यक्चतुर्दश परीक्षसे 011c
कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर 012a
तथा सन्धाय कर्माणि अष्टौ भारत सेवसे 012c
कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ 013a
आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः 013c
कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः 014a
त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् 014c
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे 015a
कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे 015c
कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः 016a
कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः 016c
विजयो मन्त्रमूलो हि राज्ञां भवति भारत 017a
सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः 017c
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे 018a
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् 018c
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह 019a
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति 019c
कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् 020a
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् 020c
कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः 021a
सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् 021c
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः 022a
विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् 022c
कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः 023a
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः 023c
कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् 024a
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् 024c
कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः 025a
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः 025c
एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः 026a
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् 026c
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च 027a
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः 027c
कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा 028a
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन 028c
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः 029a
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः 029c
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः 030a
हुतं च होष्यमाणं च काले वेदयते सदा 030c
कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः 031a
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव 031c
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः 032a
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः 032c
अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् 033a
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु 033c
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः 034a
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ 034c
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा 035a
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः 035c
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः 036a
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव 036c
कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः 037a
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः 037c
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् 038a
सम्प्राप्तकालं दातव्यं ददासि न विकर्षसि 038c
कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः 039a
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः 039c
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः 040a
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि 040c
कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान् 041a
अनुशास्सि यथाकामं कामात्मा शासनातिगः 041c
कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् 042a
लभते मानमधिकं भूयो वा भक्तवेतनम् 042c
कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् 043a
यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे 043c
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम् 044a
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ 044c
कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम् 045a
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि 045c
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते 046a
समश्च नाभिशङ्क्यश्च यथा माता यथा पिता 046c
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ 047a
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् 047c
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् 048a
बलस्य च महाराज दत्त्वा वेतनमग्रतः 048c
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप 049a
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः 049c
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः 050a
पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् 050c
कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः 051a
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः 051c
कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते 052a
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि 052c
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः 053a
बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी 053c
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप 054a
अविहाय महाराज विहंसि समरे रिपून् 054c
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव 055a
अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् 055c
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च 056a
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव 056c
कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् 057a
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः 057c
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते 058a
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् 058c
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च 059a
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव 059c
कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः 060a
पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव 060c
कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् 061a
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् 061c
कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः 062a
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव 062c
कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान् 063a
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् 063c
कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् 064a
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत 064c
कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते 065a
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः 065c
कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा 066a
त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः 066c
कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च 067a
भागशो विनिविष्टानि न कृषिर्देवमातृका 067c
कच्चिद्बीजं च भक्तं च कर्षकायावसीदते 068a
प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् 068c
कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः 069a
वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते 069c
कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः 070a
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव 070c
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः 071a
ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः 071c
कच्चिद्बलेनानुगताः समानि विषमाणि च 072a
पुराणचौराः साध्यक्षाश्चरन्ति विषये तव 072c
कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः 073a
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे 073c
कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च 074a
प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् 074c
कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते 075a
सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे 075c
कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतान् 076a
उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः 076c
कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः 077a
अभितस्त्वामुपासन्ते रक्षणार्थमरिन्दम 077c
कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते 078a
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च 078c
कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा 079a
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि 079c
कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः 080a
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा 080c
कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते 081a
अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथञ्चन 081c
कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा 082a
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च 082c
कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः 083a
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन 083c
कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः 084a
मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर 084c
कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः 085a
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः 085c
कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते 086a
ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा 086c
कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः 087a
वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे 087c
कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः 088a
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् 088c
कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः 089a
पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् 089c
कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि 090a
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि 090c
कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ 091a
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी 091c
एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति 092a
विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते 092c
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि 093a
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः 093c
पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः 094a
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ 094c
व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत 095a
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः 095c
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् 096a
अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम् 096c
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् 097a
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् 097c
मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च 098a
कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश 098c
कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् 099a
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् 099c
100 युधिष्ठिर उवाच कथं वै सफला वेदाः कथं वै सफलं धनम् 100a
कथं वै सफला दाराः कथं वै सफलं श्रुतम् 100c
101 नारद उवाच अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् 101a
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् 101c
102 वैशम्पायन उवाच एतदाख्याय स मुनिर्नारदः सुमहातपाः 102a
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् 102c
103 नारद उवाच कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् 103a
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः 103c
कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः 104a
उपानयन्ति पण्यानि उपधाभिरवञ्चिताः 104c
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः 105a
नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् 105c
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च 106a
धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी 106c
द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम् 107a
चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि 107c
कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि 108a
सतां मध्ये महाराज सत्करोषि च पूजयन् 108c
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ 109a
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो 109c
कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ 110a
धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् 110c
कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ 111a
विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः 111c
कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा 112a
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि 112c
कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् 113a
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि 113c
114 वैशम्पायन उवाच एताः कुरूणामृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य 114a
प्रणम्य पादावभिवाद्य हृष्टो राजाब्रवीन्नारदं देवरूपम् 114c
एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा 115a
उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च 115c
116 नारद उवाच एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे 116a
स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् 116c