वैशम्पायन उवाच 001
ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः 001a
अयुतं भोजयामास ब्राह्मणानां नराधिपः 001c
घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा 002a
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि 002c
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः 003a
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत 003c
वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि 004a
पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च 004c
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा 005a
उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् 005c
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः 006a
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि 006c
सभायामृषयस्तस्यां पाण्डवैः सह आसते 007a
आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः 007c
असितो देवलः सत्यः सर्पमाली महाशिराः 008a
अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः 008c
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः 009a
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् 009c
तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः 010a
अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ 010c
दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः 011a
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ 011c
बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः 012a
जातूकर्णः शिखावांश्च सुबलः पारिजातकः 012c
पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः 013a
पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा 013c
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः 014a
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः 014c
कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः 015a
पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः 015c
कर्करो वेणुजङ्घश्च कलापः कठ एव च 015e
मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः 016a
एते चान्ये च बहवो वेदवेदाङ्गपारगाः 016c
उपासते महात्मानं सभायामृषिसत्तमाः 017a
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः 017c
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते 018a
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः 018c
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् 019a
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः 019c
काम्बोजराजः कमलः कम्पनश्च महाबलः 019e
सततं कम्पयामास यवनानेक एव यः 020a
यथासुरान्कालकेयान्देवो वज्रधरस्तथा 020c
जटासुरो मद्रकान्तश्च राजा कुन्तिः कुणिन्दश्च किरातराजः 021a
तथाङ्गवङ्गौ सह पुण्ड्रकेण पाण्ड्योड्रराजौ सह चान्ध्रकेण 021c
किरातराजः सुमना यवनाधिपतिस्तथा 022a
चाणूरो देवरातश्च भोजो भीमरथश्च यः 022c
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः 023a
सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः 023c
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः 024a
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः 024c
अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः 025a
शिशुपालः सहसुतः करूषाधिपतिस्तथा 025c
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः 026a
आहुको विपृथुश्चैव गदः सारण एव च 026c
अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः 027a
भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् 027c
केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः 027e
अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः 028a
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः 028c
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः 029a
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः 029c
एते चान्ये च बहवो राजानः पृथिवीपते 030a
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः 030c
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा 031a
गीतवादित्रकुशलाः शम्यातालविशारदाः 031c
प्रमाणेऽथ लयस्थाने किन्नराः कृतनिश्रमाः 032a
सञ्चोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः 032c
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः 033a
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते 033c
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः 034a
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते 034c