वैशम्पायन उवाच 001
अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् 001a
आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् 001c
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति 002a
यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया 002c
कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति 002e
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः 003a
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत 003c
ततः सभां करिष्यामि पाण्डवाय यशस्विने 004a
मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् 004c
अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह 005a
निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् 005c
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा 005e
सा वै शतसहस्रस्य सम्मिता सर्वघातिनी 006a
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा 006c
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् 007a
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः 007c
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् 007e
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति 008a
हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः 008c
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः 009a
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः 009c
यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना 010a
आहृताः क्रतवो मुख्याः शतं भरतसत्तम 010c
यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः 011a
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः 011c
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः 012a
यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः 012c
उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः 012e
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः 013a
उपासते यत्र सत्रं सहस्रयुगपर्यये 013c
यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः 014a
श्रद्दधानेन सततं शिष्टसम्प्रतिपत्तये 014c
सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः 015a
ददौ यत्र सहस्राणि प्रयुतानि च केशवः 015c
तत्र गत्वा स जग्राह गदां शङ्खं च भारत 016a
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः 016c
किङ्करैः सह रक्षोभिरगृह्णात्सर्वमेव तत् 016e
तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् 017a
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् 017c
गदां च भीमसेनाय प्रवरां प्रददौ तदा 018a
देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् 018c
सभा तु सा महाराज शातकुम्भमयद्रुमा 019a
दश किष्कुसहस्राणि समन्तादायताभवत् 019c
यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा 020a
भ्राजमाना तथा दिव्या बभार परमं वपुः 020c
प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् 021a
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा 021c
नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता 022a
आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा 022c
उत्तमद्रव्यसम्पन्ना मणिप्राकारमालिनी 023a
बहुरत्ना बहुधना सुकृता विश्वकर्मणा 023c
न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी 024a
आसीद्रूपेण सम्पन्ना यां चक्रेऽप्रतिमां मयः 024c
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च 025a
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः 025c
अन्तरिक्षचरा घोरा महाकाया महाबलाः 026a
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः 026c
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः 027a
वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् 027c
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् 028a
पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् 028c
सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् 029a
मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् 029c
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः 030a
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत 030c
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः 031a
आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः 031c
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः 032a
हंसकारण्डवयुताश्चक्रवाकोपशोभिताः 032c
जलजानां च माल्यानां स्थलजानां च सर्वशः 033a
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते 033c
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः 034a
निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् 034c