वैशम्पायन उवाच 001
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः 001a
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः 001c
गमनाय मतिं चक्रे पितुर्दर्शनलालसः 002a
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः 002c
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः 003a
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः 003c
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः 004a
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः 004c
अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम् 005a
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् 005c
तया स्वजनगामीनि श्रावितो वचनानि सः 006a
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः 006c
तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् 007a
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः 007c
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः 008a
द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः 008c
भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली 009a
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः 009c
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः 010a
माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि 010c
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः 010e
स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः 011a
वसु प्रदाय च ततः प्रदक्षिणमवर्तत 011c
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् 012a
गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम् 012c
तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते 013a
प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः 013c
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः 014a
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् 014c
अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा 014e
उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् 015a
रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् 015c
तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी 016a
पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः 016c
स तथा भ्रातृभिः सार्धं केशवः परवीरहा 017a
अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः 017c
पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम् 018a
युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा 018c
परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः 019a
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः 019c
निवर्तयित्वा च तदा पाण्डवान्सपदानुगान् 020a
स्वां पुरीं प्रययौ कृष्णः पुरन्दर इवापरः 020c
लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा 021a
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् 021c
अतृप्तमनसामेव तेषां केशवदर्शने 022a
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः 022c
अकामा इव पार्थास्ते गोविन्दगतमानसाः 023a
निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः 023c
स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात् 023e