वैशम्पायन उवाच 001
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ 001a
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः 001c
002a अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः 002c त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते 003 अर्जुन उवाच 003a कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर 003c प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते 004 मय उवाच 004a युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ 004c प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि भारत 005a अहं हि विश्वकर्मा वै दानवानां महाकविः 005c सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव 006 अर्जुन उवाच 006a प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया 006c एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया 007a न चापि तव सङ्कल्पं मोघमिच्छामि दानव 007c कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि 008 वैशम्पायन उवाच 008a चोदितो वासुदेवस्तु मयेन भरतर्षभ 008c मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति 009a चोदयामास तं कृष्णः सभा वै क्रियतामिति 009c धर्मराजस्य दैतेय यादृशीमिह मन्यसे 010a यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः 010c मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् 011a यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया 011c आसुरान्मानुषांश्चैव तां सभां कुरु वै मय 012a प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा 012c विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा 013a ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे 013c सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् 014a तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा 014c स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः 015a स पूर्वदेवचरितं तत्र तत्र विशां पते 015c कथयामास दैतेयः पाण्डुपुत्रेषु भारत 016a स कालं कञ्चिदाश्वस्य विश्वकर्मा प्रचिन्त्य च 016c सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् 017a अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः 017c पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः 018a तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः 018c धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् 019a सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम् 019c दशकिष्कुसहस्रां तां मापयामास सर्वतः