मन्दपाल उवाच 001
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया 001a
अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् 001c
अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः 002a
युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः 002c
न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति 003a
ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः 003c
वैशम्पायन उवाच 004
एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत 004a
मन्दपालस्ततो देशादन्यं देशं जगाम ह 004c
भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् 005a
ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् 005c
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः 006a
अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् 006c
ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः 007a
मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् 007c
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् 008a
वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् 008c
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः 009a
ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह 009c
यदा प्रसन्नो भगवान्महादेवो भविष्यति 010a
तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः 010c
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन 011a
तपसा महता चापि दास्यामि तव तान्यहम् 011c
आग्नेयानि च सर्वाणि वायव्यानि तथैव च 012a
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय 012c
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् 013a
ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा 013c
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः 014a
हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः 014c
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् 015a
अहानि पञ्च चैकं च विरराम सुतर्पितः 015c
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च 016a
युक्तः परमया प्रीत्या तावुवाच विशां पते 016c
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् 017a
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् 017c
एवं तौ समनुज्ञातौ पावकेन महात्मना 018a
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा 018c
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ 019a
रमणीये नदीकूले सहिताः समुपाविशन् 019c