वैशम्पायन उवाच 001
मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा 001a
उक्तवानप्यशीतांशुं नैव स स्म न तप्यते 001c
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् 002a
कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः 002c
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति 003a
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः 003c
कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी 004a
भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती 004c
कथं नु सरणेऽशक्तान्पतने च ममात्मजान् 005a
सन्तप्यमाना अभितो वाशमानाभिधावती 005c
जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे 006a
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी 006c
लालप्यमानं तमृषिं मन्दपालं तथा वने 007a
लपिता प्रत्युवाचेदं सासूयमिव भारत 007c
न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि 008a
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् 008c
तथाग्नौ ते परीत्ताश्च त्वया हि मम सन्निधौ 009a
प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना 009c
लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन 010a
समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् 010c
तामेव तु ममामित्रीं चिन्तयन्परितप्यसे 011a
ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् 011c
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने 012a
पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन 012c
गच्छ त्वं जरितामेव यदर्थं परितप्यसे 013a
चरिष्याम्यहमप्येका यथा कापुरुषे तथा 013c
मन्दपाल उवाच 014
नाहमेवं चरे लोके यथा त्वमभिमन्यसे 014a
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम 014c
भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः 015a
अवमन्येत तं लोको यथेच्छसि तथा कुरु 015c
एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् 016a
द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम 016c
वैशम्पायन उवाच 017
तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः 017a
जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी 017c
सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः 018a
रोरूयमाणा कृपणा सुतान्दृष्टवती वने 018c
अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः 019a
एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत 019c
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत 020a
अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः 020c
लालप्यमानमेकैकं जरितां च पुनः पुनः 021a
नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा 021c
मन्दपाल उवाच 022
ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः 022a
मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते 022c
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे 023a
कृतवानस्मि हव्याशे नैव शान्तिमितो लभे 023c
जरितोवाच 024
किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा 024a
किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि 024c
यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा 025a
तामेव लपितां गच्छ तरुणीं चारुहासिनीम् 025c
मन्दपाल उवाच 026
न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् 026a
सापत्नकमृते लोके भवितव्यं हि तत्तथा 026c
सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता 027a
अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् 027c
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् 028a
सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् 028c
अपध्यानेन सा तेन धूमारुणसमप्रभा 029a
लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते 029c
अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह 030a
इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे 030c
नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन 031a
न हि कार्यमनुध्याति भार्या पुत्रवती सती 031c
वैशम्पायन उवाच 032
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे 032a
स च तानात्मजान्राजन्नाश्वासयितुमारभत् 032c