जरितारिरुवाच 001
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः 001a
स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् 001c
यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते 002a
स कृच्छ्रकाले व्यथितो न प्रजानाति किञ्चन 002c
सारिसृक्व उवाच 003
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः 003a
शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः 003c
स्तम्बमित्र उवाच 004
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः 004a
ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति 004c
द्रोण उवाच 005
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् 005a
सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति 005c
वैशम्पायन उवाच 006
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् 006a
तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव 006c
जरितारिरुवाच 007
आत्मासि वायोः पवनः शरीरमुत वीरुधाम् 007a
योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः 007c
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः 008a
अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा 008c
सारिसृक्व उवाच 009
माता प्रपन्ना पितरं न विद्मः पक्षाश्च नो न प्रजाताब्जकेतो 009a
न नस्त्राता विद्यतेऽग्ने त्वदन्यस्तस्माद्धि नः परिरक्षैकवीर 009c
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः 010a
तेन नः परिरक्षाद्य ईडितः शरणैषिणः 010c
त्वमेवैकस्तपसे जातवेदो नान्यस्तप्ता विद्यते गोषु देव 011a
ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रैहि वै हव्यवाह 011c
स्तम्बमित्र उवाच 012
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् 012a
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च 012c
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः 013a
मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च 013c
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः 014a
सर्वस्यास्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा 014c
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते 015a
नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् 015c
द्रोण उवाच 016
सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान्रसांश्च 016a
विश्वानादाय पुनरुत्सर्गकाले सृष्ट्वा वृष्ट्या भावयसीह शुक्र 016c
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः 017a
जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः 017c
इदं वै सद्म तिग्मांशो वरुणस्य परायणम् 018a
शिवस्त्राता भवास्माकं मास्मानद्य विनाशय 018c
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन 019a
परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव 019c
वैशम्पायन उवाच 020
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा 020a
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया 020c
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया 021a
ईप्सितं ते करिष्यामि न च ते विद्यते भयम् 021c
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः 022a
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह 022c
यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् 023a
उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते 023c
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो 023e
द्रोण उवाच 024
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः 024a
एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् 024c
वैशम्पायन उवाच 025
तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् 025a
ददाह खाण्डवं चैव समिद्धो जनमेजय 025c