जरितोवाच 001
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् 001a
क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः 001c
शार्ङ्गका ऊचुः 002
न हृतं तं वयं विद्मः श्येनेनाखुं कथञ्चन 002a
अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः 002c
संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् 003a
मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् 003c
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते 004a
चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् 004c
जरितोवाच 005
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् 005a
सञ्चरन्तं समादाय जहाराखुं बिलाद्बली 005c
तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् 006a
आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् 006c
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि 007a
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः 007c
यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा 008a
तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति 008c
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् 009a
श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः 009c
शार्ङ्गका ऊचुः 010
न विद्म वै वयं मातर्हृतमाखुमितः पुरा 010a
अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् 010c
जरितोवाच 011
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् 011a
अत एव भयं नास्ति क्रियतां वचनं मम 011c
शार्ङ्गका ऊचुः 012
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् 012a
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् 012c
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् 013a
पीड्यमाना भरस्यस्मान्का सती के वयं तव 013c
तरुणी दर्शनीयासि समर्था भर्तुरेषणे 014a
अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् 014c
वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् 015a
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः 015c
वैशम्पायन उवाच 016
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे 016a
जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् 016c
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः 017a
यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः 017c
ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा 018a
जरितारिस्ततो वाचं श्रावयामास पावकम् 018c