वैशम्पायन उवाच 001
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः 001a
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् 001c
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी 002a
जरिता दुःखसन्तप्ता विललाप नरेश्वर 002c
अयमग्निर्दहन्कक्षमित आयाति भीषणः 003a
जगत्सन्दीपयन्भीमो मम दुःखविवर्धनः 003c
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः 004a
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् 004c
त्रासयंश्चायमायाति लेलिहानो महीरुहान् 004e
अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम 005a
आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः 005c
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे 006a
कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् 006c
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् 007a
चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन 007c
छादयित्वा च वो गात्रैः करिष्ये मरणं सह 007e
जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् 008a
सारिसृक्वः प्रजायेत पितॄणां कुलवर्धनः 008c
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः 009a
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा 009c
कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा 010a
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला 010c
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् 011a
एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् 011c
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् 012a
अस्मासु हि विनष्टेषु भवितारः सुतास्तव 012c
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः 012e
अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः 013a
तद्वै कर्तुं परः कालो मातरेष भवेत्तव 013c
मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः 014a
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः 014c
जरितोवाच 015
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः 015a
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् 015c
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः 016a
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः 016c
तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् 017a
रोचतामेष वोपायो विमोक्षाय हुताशनात् 017c
शार्ङ्गका ऊचुः 018
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् 018a
पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् 018c
कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् 019a
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः 019c
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् 020a
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् 020c
गर्हितं मरणं नः स्यादाखुना खादता बिले 021a
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् 021c