जनमेजय उवाच 001
किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते 001a
तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे 001c
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च 002a
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् 002c
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् 003a
कीर्तयस्वाग्निसम्मर्दे कथं ते न विनाशिताः 003c
वैशम्पायन उवाच 004
यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते 004a
तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत 004c
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः 005a
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः 005c
स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् 006a
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः 006c
स गत्वा तपसः पारं देहमुत्सृज्य भारत 007a
जगाम पितृलोकाय न लेभे तत्र तत्फलम् 007c
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि 008a
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः 008c
किमर्थमावृता लोका ममैते तपसार्जिताः 009a
किं मया न कृतं तत्र यस्येदं कर्मणः फलम् 009c
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् 010a
फलमेतस्य तपसः कथयध्वं दिवौकसः 010c
देवा ऊचुः 011
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु 011a
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः 011c
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः 012a
तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा 012c
त इमे प्रसवस्यार्थे तव लोकाः समावृताः 013a
प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् 013c
पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने 014a
तस्मादपत्यसन्ताने यतस्व द्विजसत्तम 014c
वैशम्पायन उवाच 015
तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् 015a
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् 015c
स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् 016a
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् 016c
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः 017a
तानपास्य स तत्रैव जगाम लपितां प्रति 017c
बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने 017e
तस्मिन्गते महाभागे लपितां प्रति भारत 018a
अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् 018c
तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने 019a
नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप 019c
बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा 019e
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः 020a
मन्दपालश्चरंस्तस्मिन्वने लपितया सह 020c
तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् 021a
सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् 021c
पुत्रान्परिददद्भीतो लोकपालं महौजसम् 021e
मन्दपाल उवाच 022
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् 022a
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक 022c
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः 023a
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् 023c
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः 024a
त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन 024c
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् 025a
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् 025c
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः 026a
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः 026c
जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते 027a
तवैव कर्म विहितं भूतं सर्वं चराचरम् 027c
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् 028a
त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् 028c
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः 029a
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः 029c
वैशम्पायन उवाच 030
एवं स्तुतस्ततस्तेन मन्दपालेन पावकः 030a
तुतोष तस्य नृपते मुनेरमिततेजसः 030c
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते 030e
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् 031a
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय 031c
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः 032a
खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया 032c