वैशम्पायन उवाच 001
तथा शैलनिपातेन भीषिताः खाण्डवालयाः 001a
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः 001c
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा 001e
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा 002a
समुद्विग्ना विससृपुस्तथान्या भूतजातयः 002c
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ 003a
उत्पातनादशब्देन सन्त्रासित इवाभवन् 003c
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः 004a
तेन ता जातयः क्षुद्राः सदानवनिशाचराः 004c
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् 004e
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः 005a
वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः 005c
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः 006a
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत 006c
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः 007a
हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः 007c
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत 008a
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा 008c
समेतानां च देवानां दानवानां च सर्वशः 009a
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे 009c
तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः 010a
नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः 010c
शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् 011a
बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ 011c
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी 012a
शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना 012c
न ते सखा सन्निहितस्तक्षकः पन्नगोत्तमः 013a
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ 013c
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ 014a
वासुदेवार्जुनौ शक्र निबोधेदं वचो मम 014c
नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि 015a
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ 015c
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि 016a
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ 016c
पूजनीयतमावेतावपि सर्वैः सुरासुरैः 017a
सयक्षरक्षोगन्धर्वनरकिन्नरपन्नगैः 017c
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव 018a
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् 018c
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः 019a
कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा 019c
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः 020a
त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् 020c
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु 021a
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः 021c
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ 022a
निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा 022c
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् 023a
व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् 023c
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः 024a
सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना 024c
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् 025a
निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् 025c
शतेनैकं च विव्याध शतं चैकेन पत्रिणा 026a
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव 026c
न चालभन्त ते शर्म रोधःसु विषमेषु च 027a
पितृदेवनिवासेषु सन्तापश्चाप्यजायत 027c
भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् 028a
रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः 028c
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः 028e
न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् 029a
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः 029c
एकायनगता येऽपि निष्पतन्त्यत्र केचन 030a
राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः 030c
ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः 031a
पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः 031c
स मांसरुधिरौघैश्च मेदौघैश्च समीरितः 032a
उपर्याकाशगो वह्निर्विधूमः समदृश्यत 032c
दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः 033a
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् 033c
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः 034a
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः 034c
अथासुरं मयं नाम तक्षकस्य निवेशनात् 035a
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः 035c
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः 036a
देहवान्वै जटी भूत्वा नदंश्च जलदो यथा 036c
जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः 036e
स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् 037a
अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत 037c
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः 038a
प्रत्युवाच मयं पार्थो जीवयन्निव भारत 038c
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् 039a
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च 039c
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च 040a
अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति 040c