वैशम्पायन उवाच 001
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् 001a
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् 001c
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः 002a
छादयामास तद्वर्षमपकृष्य ततो वनात् 002c
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः 003a
सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना 003c
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः 004a
दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा 004c
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली 005a
स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् 005c
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः 006a
मोक्षयामास तं माता निगीर्य भुजगात्मजा 006c
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते 007a
ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी 007c
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः 008a
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः 008c
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् 009a
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत 009c
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः 010a
द्विधा त्रिधा च चिच्छेद खगतानेव भारत 010c
शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् 011a
पावको वासुदेवश्च अप्रतिष्ठो भवेदिति 011c
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः 012a
योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् 012c
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् 013a
स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः 013c
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् 014a
वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् 014c
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् 015a
वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः 015c
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् 016a
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः 016c
क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः 017a
सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् 017c
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः 018a
प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् 018c
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः 019a
समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः 019c
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा 020a
प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ 020c
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः 021a
उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः 021c
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् 022a
विवशाश्चापतन्दीप्तं देहाभावाय पावकम् 022c
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः 023a
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः 023c
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः 024a
कृष्णपार्थौ जिघांसन्तः क्रोधसम्मूर्च्छितौजसः 024c
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् 025a
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः 025c
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा 026a
दैत्यदानवसङ्घानां चकार कदनं महत् 026c
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा 027a
वेलामिव समासाद्य व्यातिष्ठन्त महौजसः 027c
ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः 028a
पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् 028c
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् 029a
हतावेताविति प्राह सुरानसुरसूदनः 029c
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् 030a
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा 030c
कालदण्डं यमो राजा शिबिकां च धनेश्वरः 031a
पाशं च वरुणस्तत्र विचक्रं च तथा शिवः 031c
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि 032a
जगृहे च धनुर्धाता मुसलं च जयस्तथा 032c
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः 033a
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् 033c
प्रगृह्य परिघं घोरं विचचारार्यमा अपि 034a
मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत 034c
पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते 035a
आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः 035c
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः 036a
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा 036c
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ 037a
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः 037c
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे 038a
युगान्तसमरूपाणि भूतोत्सादाय भारत 038c
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ 039a
अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ 039c
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः 040a
न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा 040c
असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः 041a
भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः 041c
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च 042a
आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः 042c
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे 043a
बभूव परमप्रीतो भूयश्चैतावयोधयत् 043c
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः 044a
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः 044c
तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः 044e
विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः 045a
भूयः संवर्धयामास तद्वर्षं देवराडथ 045c
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः 046a
विलयं गमयामास हर्षयन्पितरं तदा 046c
समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् 047a
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् 047c
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः 048a
बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा 048c
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ 049a
सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः 049c
तेनावाक्पतता दावे शैलेन महता भृशम् 050a
भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः 050c