वैशम्पायन उवाच 001
तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ 001a
दिक्षु सर्वासु भूतानां चक्राते कदनं महत् 001c
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः 002a
पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् 002c
छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् 003a
आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ 003c
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः 004a
उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश 004c
दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे 005a
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः 005c
समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे 006a
त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः 006c
विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः 007a
तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे 007c
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले 008a
तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः 008c
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत 009a
गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः 009c
शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः 010a
अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये 010c
तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः 011a
दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि 011c
ते शराचितसर्वाङ्गा विनदन्तो महारवान् 012a
ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः 012c
शरैरभ्याहतानां च दह्यतां च वनौकसाम् 013a
विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः 013c
वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः 014a
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् 014c
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः 015a
शरणं देवराजानं सहस्राक्षं पुरन्दरम् 015c
देवा ऊचुः 016
किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना 016a
कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर 016c
वैशम्पायन उवाच 017
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च 017a
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः 017c
महता मेघजालेन नानारूपेण वज्रभृत् 018a
आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः 018c
ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः 019a
अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति 019c
असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः 020a
ख एव समशुष्यन्त न काश्चित्पावकं गताः 020c
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा 021a
पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु 021c
अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् 022a
बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् 022c