वैशम्पायन उवाच 001
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः 001a
चिन्तयामास वरुणं लोकपालं दिदृक्षया 001c
आदित्यमुदके देवं निवसन्तं जलेश्वरम् 001e
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् 002a
तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् 002c
चतुर्थं लोकपालानां रक्षितारं महेश्वरम् 002e
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते 003a
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् 003c
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति 004a
चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् 004c
ददानीत्येव वरुणः पावकं प्रत्यभाषत 004e
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् 005a
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च 005c
सर्वायुधमहामात्रं परसेनाप्रधर्षणम् 005e
एकं शतसहस्रेण सम्मितं राष्ट्रवर्धनम् 006a
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् 006c
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः 007a
प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी 007c
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् 008a
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः 008c
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे 008e
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः 009a
भानुमन्तं महाघोषं सर्वभूतमनोहरम् 009c
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः 010a
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव 010c
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः 011a
नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया 011c
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा 012a
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा 012c
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः 013a
विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत 013c
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च 014a
नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति 014c
स तं नानापताकाभिः शोभितं रथमुत्तमम् 015a
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च 015c
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् 016a
आरुरोह रथं पार्थो विमानं सुकृती यथा 016c
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा 017a
गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः 017c
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् 018a
जग्राह बलमास्थाय ज्यया च युयुजे धनुः 018c
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह 019a
येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः 019c
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी 020a
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि 020c
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः 021a
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा 021c
अब्रवीत्पावकश्चैनमेतेन मधुसूदन 022a
अमानुषानपि रणे विजेष्यसि न संशयः 022c
अनेन त्वं मनुष्याणां देवानामपि चाहवे 023a
रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा 023c
भविष्यसि न सन्देहः प्रवरारिनिबर्हणे 023e
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु 024a
हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः 024c
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् 025a
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः 025c
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ 026a
कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि 026c
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः 027a
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना 027c
अर्जुन उवाच 028
चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् 028a
त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः 028c
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी 029a
अहमप्युत्सहे लोकान्विजेतुं युधि पावक 029c
सर्वतः परिवार्यैनं दावेन महता प्रभो 030a
कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि 030c
वैशम्पायन उवाच 031
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च 031a
तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे 031c
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा 032a
ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् 032c
परिगृह्य समाविष्टस्तद्वनं भरतर्षभ 033a
मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् 033c
दह्यतस्तस्य विबभौ रूपं दावस्य भारत 034a
मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः 034c