वैशम्पायन उवाच 001
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् 001a
लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः 001c
ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा 002a
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् 002c
एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ 003a
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे 003c
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः 004a
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति 004c
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् 005a
यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् 005c
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति 006a
तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना 006c
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा 007a
सगणस्तत्कृते दावं परिरक्षति वज्रभृत् 007c
तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः 008a
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा 008c
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति 009a
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् 009c
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः 010a
दहेयं खाण्डवं दावमेतदन्नं वृतं मया 010c
युवां ह्युदकधारास्ता भूतानि च समन्ततः 011a
उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः 011c
एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् 012a
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः 012c
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च 013a
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् 013c
धनुर्मे नास्ति भगवन्बाहुवीर्येण सम्मितम् 014a
कुर्वतः समरे यत्नं वेगं यद्विषहेत मे 014c
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः 015a
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् 015c
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः 016a
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् 016c
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् 017a
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे 017c
उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि 018a
निवारयेयं येनेन्द्रं वर्षमाणं महावने 018c
पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक 019a
करणानि समर्थानि भगवन्दातुमर्हसि 019c