वैशम्पायन उवाच 001
इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् 001a
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च 001c
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् 002a
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः 002c
स समं धर्मकामार्थान्सिषेवे भरतर्षभः 003a
त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् 003c
तेषां समविभक्तानां क्षितौ देहवतामिव 004a
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः 004c
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः 005a
रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् 005c
अधिष्ठानवती लक्ष्मीः परायणवती मतिः 006a
बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता 006c
भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ 007a
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः 007c
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे 008a
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः 008c
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले 009a
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च 009c
न तु केवलदैवेन प्रजा भावेन रेमिरे 010a
यद्बभूव मनःकान्तं कर्मणा स चकार तत् 010c
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् 011a
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः 011c
स हि सर्वस्य लोकस्य हितमात्मन एव च 012a
चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः 012c
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः 013a
अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा 013c
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् 014a
उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति 014c
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन 015a
सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन 015c
वासुदेव उवाच 016
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले 016a
सुहृज्जनवृताः पार्थ विहरेम यथासुखम् 016c
वैशम्पायन उवाच 017
आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत 017a
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः 017c
विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् 018a
गृहैरुच्चावचैर्युक्तं पुरन्दरगृहोपमम् 018c
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः 019a
माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः 019c
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः 020a
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत 020c
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः 021a
यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः 021c
द्रौपदी च सुभद्रा च वासांस्याभरणानि च 022a
प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे 022c
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः 023a
जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् 023c
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् 024a
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् 024c
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः 025a
शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् 025c
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ 026a
समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् 026c
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ 027a
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः 027c
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च 028a
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ 028c
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव 029a
अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ 029c
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः 030a
हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः 030c
तरुणादित्यसङ्काशः कृष्णवासा जटाधरः 031a
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव 031c
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् 032a
अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः 032c