वैशम्पायन उवाच 001
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः 001a
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् 001c
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् 002a
सम्मानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् 002c
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा 003a
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः 003c
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते 004a
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि 004c
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः 005a
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः 005c
उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी 006a
एष चापीदृशः पार्थः प्रसह्य हृतवानिति 006c
भरतस्यान्वये जातं शन्तनोश्च महात्मनः 007a
कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् 007c
न च पश्यामि यः पार्थं विक्रमेण पराजयेत् 008a
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष 008c
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः 009a
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् 009c
तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् 010a
निवर्तयध्वं संहृष्टा ममैषा परमा मतिः 010c
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् 011a
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः 011c
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप 012a
निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः 012c
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः 013a
पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः 013c
पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् 013e
अभिगम्य स राजानं विनयेन समाहितः 014a
अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् 014c
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् 015a
तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा 015c
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते 015e
तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः 016a
सान्त्वयामास भूयश्च क्षमयामास चासकृत् 016c
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् 017a
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः 017c
साधिकं तेन रूपेण शोभमाना यशस्विनी 018a
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना 018c
ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी 018e
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना 019a
ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् 019c
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् 020a
सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः 020c
तथैव मुदिता भद्रा तामुवाचैवमस्त्विति 020e
ततस्ते हृष्टमनसः पाण्डवेया महारथाः 021a
कुन्ती च परमप्रीता बभूव जनमेजय 021c
श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् 022a
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा 022c
आजगाम विशुद्धात्मा सह रामेण केशवः 023a
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः 023c
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः 024a
सैन्येन महता शौरिरभिगुप्तः परन्तपः 024c
तत्र दानपतिर्धीमानाजगाम महायशाः 025a
अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः 025c
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः 026a
साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः 026c
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः 027a
प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च 027c
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च 028a
सारणश्च महाबाहुर्गदश्च विदुषां वरः 028c
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा 029a
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु 029c
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् 030a
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा 030c
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् 031a
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् 031c
सिक्तसम्मृष्टपन्थानं पुष्पप्रकरशोभितम् 032a
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् 032c
दह्यतागुरुणा चैव देशे देशे सुगन्धिना 033a
सुसम्मृष्टजनाकीर्णं वणिग्भिरुपशोभितम् 033c
प्रतिपेदे महाबाहुः सह रामेण केशवः 034a
वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः 034c
सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः 035a
विवेश भवनं राज्ञः पुरन्दरगृहोपमम् 035c
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि 036a
मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना 036c
तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् 037a
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् 037c
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः 038a
प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् 038c
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् 039a
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः 039c
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् 040a
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः 040c
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् 041a
चतुर्युजामुपेतानां सूतैः कुशलसम्मतैः 041c
सहस्रं प्रददौ कृष्णो गवामयुतमेव च 041e
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् 042a
वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् 042c
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् 042e
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् 043a
शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च 043c
स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् 044a
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् 044c
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् 045a
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः 045c
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः 046a
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः 046c
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् 047a
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् 047c
कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् 048a
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः 048c
रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली 049a
प्रीयमाणो हलधरः सम्बन्धप्रीतिमावहन् 049c
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् 050a
महागजमहाग्राहः पताकाशैवलाकुलः 050c
पाण्डुसागरमाविद्धः प्रविवेश महानदः 051a
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् 051c
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः 052a
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् 052c
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः 053a
विजह्रुरमरावासे नराः सुकृतिनो यथा 053c
तत्र तत्र महापानैरुत्कृष्टतलनादितैः 054a
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः 054c
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् 055a
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् 055c
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः 056a
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः 056c
वासुदेवस्तु पार्थेन तत्रैव सह भारत 057a
उवास नगरे रम्ये शक्रप्रस्थे महामनाः 057c
व्यचरद्यमुनाकूले पार्थेन सह भारत 057e
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा 058a
जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् 058c
दीर्घबाहुं महासत्त्वमृषभाक्षमरिन्दमम् 059a
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् 059c
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् 060a
अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् 060c
स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् 061a
मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः 061c
यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः 062a
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः 062c
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् 063a
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः 063c
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः 064a
स चापि ववृधे बालः शुक्लपक्षे यथा शशी 064c
चतुष्पादं दशविधं धनुर्वेदमरिन्दमः 065a
अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् 065c
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः 066a
क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् 066c
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः 067a
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः 067c
सर्वसंहननोपेतं सर्वलक्षणलक्षितम् 068a
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् 068c
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् 069a
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् 069c
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ 070a
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा 070c
पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा 071a
लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव 071c
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् 072a
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् 072c
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् 073a
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा 073c
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् 074a
परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् 074c
सुते सोमसहस्रे तु सोमार्कसमतेजसम् 075a
सुतसोमं महेष्वासं सुषुवे भीमसेनतः 075c
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना 076a
जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् 076c
शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः 077a
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् 077c
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते 078a
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः 078c
एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः 079a
अन्वजायन्त राजेन्द्र परस्परहिते रताः 079c
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च 080a
चकार विधिवद्धौम्यस्तेषां भरतसत्तम 080c
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः 081a
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् 081c
देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः 082a
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् 082c