वैशम्पायन उवाच 001
ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः 001a
गतां रैवतके कन्यां विदित्वा जनमेजय 001c
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् 002a
कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः 002c
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि 003a
सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना 003c
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना 004a
ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना 004c
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् 005a
मृगयाव्यपदेशेन यौगपद्येन भारत 005c
सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् 006a
दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च 006c
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति 007a
तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् 007c
ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् 008a
रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति 008c
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः 009a
विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् 009c
ते समासाद्य सहिताः सुधर्मामभितः सभाम् 010a
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् 010c
तेषां श्रुत्वा सभापालो भेरीं सान्नाहिकीं ततः 011a
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् 011c
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा 012a
अन्नपानमपास्याथ समापेतुः सभां ततः 012c
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च 013a
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च 013c
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः 014a
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः 014c
तेषां समुपविष्टानां देवानामिव सन्नये 015a
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः 015c
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः 016a
अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः 016c
योजयध्वं रथानाशु प्रासानाहरतेति च 017a
धनूंषि च महार्हाणि कवचानि बृहन्ति च 017c
सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च 018a
स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् 018c
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च 019a
अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् 019c
वनमाली ततः क्षीबः कैलासशिखरोपमः 020a
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् 020c
किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने 021a
अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः 021c
एष तावदभिप्रायमाख्यातु स्वं महामतिः 022a
यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः 022c
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् 023a
तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् 023c
समं वचो निशम्येति बलदेवस्य धीमतः 024a
पुनरेव सभामध्ये सर्वे तु समुपाविशन् 024c
ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् 025a
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन 025c
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत 026a
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः 026c
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति 027a
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् 027c
ईप्समानश्च सम्बन्धं कृतपूर्वं च मानयन् 028a
को हि नाम भवेनार्थी साहसेन समाचरेत् 028c
सोऽवमन्य च नामास्माननादृत्य च केशवम् 029a
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः 029c
कथं हि शिरसो मध्ये पदं तेन कृतं मम 030a
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः 030c
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् 031a
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः 031c
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् 032a
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा 032c