वैशम्पायन उवाच 001
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ 001a
वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप 001c
तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः 002a
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा 002c
प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः 003a
स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः 003c
वादित्राणि च तत्र स्म वादकाः समवादयन् 004a
ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः 004c
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः 005a
यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः 005c
पौराश्च पादचारेण यानैरुच्चावचैस्तथा 006a
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः 006c
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः 007a
अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत 007c
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् 008a
उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् 008c
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ 009a
दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव 009c
अक्रूरः सारणश्चैव गदो भानुर्विडूरथः 010a
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च 010c
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ 011a
हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः 011c
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् 012a
तमुत्सवं रैवतके शोभयां चक्रिरे तदा 012c
तदा कोलाहले तस्मिन्वर्तमाने महाशुभे 013a
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः 013c
तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम् 014a
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा 014c
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत 015a
तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् 015c
अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत 016a
वनेचरस्य किमिदं कामेनालोड्यते मनः 016c
ममैषा भगिनी पार्थ सारणस्य सहोदरा 017a
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् 017c
अर्जुन उवाच 018
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा 018a
रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् 018c
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् 019a
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव 019c
प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन 020a
आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् 020c
वासुदेव उवाच 021
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ 021a
स च संशयितः पार्थ स्वभावस्यानिमित्ततः 021c
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते 022a
विवाहहेतोः शूराणामिति धर्मविदो विदुः 022c
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम 023a
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् 023c
वैशम्पायन उवाच 024
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् 024a
शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा 024c
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै 025a
श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः 025c