वैशम्पायन उवाच 001
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च 001a
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः 001c
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च 002a
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् 002c
प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् 003a
तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः 003c
ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः 004a
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ 004c
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने 005a
आस्तां प्रियसखायौ तौ नरनारायणावृषी 005c
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत 006a
किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत 006c
ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा 007a
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः 007c
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ 008a
महीधरं रैवतकं वासायैवाभिजग्मतुः 008c
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् 009a
पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् 009c
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः 010a
सहैव वासुदेवेन दृष्टवान्नटनर्तकान् 010c
अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः 011a
सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः 011c
तीर्थानां दर्शनं चैव पर्वतानां च भारत 012a
आपगानां वनानां च कथयामास सात्वते 012c
स कथाः कथयन्नेव निद्रया जनमेजय 013a
कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसम्मिते 013c
मधुरेण स गीतेन वीणाशब्देन चानघ 014a
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा 014c
स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः 015a
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् 015c
अलङ्कृता द्वारका तु बभूव जनमेजय 016a
कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि 016c
दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः 017a
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः 017c
अवलोकेषु नारीणां सहस्राणि शतानि च 018a
भोजवृष्ण्यन्धकानां च समवायो महानभूत् 018c
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः 019a
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः 019c
कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः 020a
समानवयसः सर्वानाश्लिष्य स पुनः पुनः 020c
कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते 021a
उवास सह कृष्णेन बहुलास्तत्र शर्वरीः 021c