वर्गोवाच 001
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम 001a
आयाम शरणं विप्रं तं तपोधनमच्युतम् 001c
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः 002a
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज 002c
एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन 003a
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः 003c
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः 004a
तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि 004c
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते 005a
सत्यो भवतु कल्याण एष वादो मनीषिणाम् 005c
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् 006a
शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि 006c
वैशम्पायन उवाच 007
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् 007a
प्रसादं कृतवान्वीर रविसोमसमप्रभः 007c
ब्राह्मण उवाच 008
शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् 008a
परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् 008c
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले 009a
उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः 009c
तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ 010a
अनृतं नोक्तपूर्वं मे हसतापि कदाचन 010c
तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह 011a
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः 011c
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् 011e
वर्गोवाच 012
ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् 012a
अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः 012c
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् 013a
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः 013c
ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत 014a
दृष्टवत्यो महाभागं देवर्षिमुत नारदम् 014c
सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् 015a
अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः 015c
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् 016a
श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् 016c
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै 017a
पुण्यानि रमणीयानि तानि गच्छत माचिरम् 017c
तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः 018a
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः 018c
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः 019a
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ 019c
एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः 020a
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय 020c
वैशम्पायन उवाच 021
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते 021a
तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् 021c
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् 022a
तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा 022c
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः 023a
चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ 023c
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् 024a
तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् 024c