वैशम्पायन उवाच 001
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः 001a
अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः 001c
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः 002a
आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः 002c
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् 003a
कारन्धमं प्रसन्नं च हयमेधफलं च यत् 003c
भारद्वाजस्य तीर्थं च पापप्रशमनं महत् 003e
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः 004a
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः 004c
तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः 005a
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः 005c
तापसा ऊचुः 006
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् 006a
अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन 006c
वैशम्पायन उवाच 007
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः 007a
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः 007c
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् 008a
विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः 008c
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् 009a
निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् 009c
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् 010a
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः 010c
उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना 011a
बभूव नारी कल्याणी सर्वाभरणभूषिता 011c
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा 011e
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः 012a
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् 012c
का वै त्वमसि कल्याणि कुतो वासि जलेचरी 013a
किमर्थं च महत्पापमिदं कृतवती पुरा 013c
नार्युवाच 014
अप्सरास्मि महाबाहो देवारण्यविचारिणी 014a
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल 014c
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः 015a
ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् 015c
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् 016a
रूपवन्तमधीयानमेकमेकान्तचारिणम् 016c
तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् 017a
आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् 017c
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् 018a
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया 018c
अहं च सौरभेयी च समीची बुद्बुदा लता 019a
यौगपद्येन तं विप्रमभ्यगच्छाम भारत 019c
गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् 020a
स च नास्मासु कृतवान्मनो वीर कथञ्चन 020c
नाकम्पत महातेजाः स्थितस्तपसि निर्मले 020e
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ 021a
ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः 021c