वैशम्पायन उवाच 001
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत 001a
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः 001c
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् 002a
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः 002c
प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च 003a
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः 003c
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः 004a
दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च 004c
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत 005a
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः 005c
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः 006a
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति 006c
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् 007a
महानदीं गयां चैव गङ्गामपि च भारत 007c
एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् 008a
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु 008c
अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् 009a
जगाम तानि सर्वाणि तीर्थान्यायतनानि च 009c
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः 009e
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः 010a
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत 010c
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः 011a
सहायैरल्पकैः शूरः प्रययौ येन सागरम् 011c
स कलिङ्गानतिक्रम्य देशानायतनानि च 012a
धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः 012c
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् 013a
समुद्रतीरेण शनैर्मणलूरं जगाम ह 013c
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च 014a
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् 014c
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् 014e
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना 015a
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया 015c
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् 016a
अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् 016c
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः 016e
राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह 017a
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् 017c
उग्रेण तपसा तेन प्रणिपातेन शङ्करः 018a
ईश्वरस्तोषितस्तेन महादेव उमापतिः 018c
स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले 019a
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा 019c
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे 020a
कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् 020c
पुत्रो ममेयमिति मे भावना पुरुषोत्तम 021a
पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ 021c
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह 022a
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव 022c
स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च 023a
उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः 023c