वैशम्पायन उवाच 001
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् 001a
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः 001c
वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः 002a
चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये 002c
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः 003a
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः 003c
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः 004a
वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः 004c
रमणीयानि चित्राणि वनानि च सरांसि च 005a
सरितः सागरांश्चैव देशानपि च भारत 005c
पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ 006a
स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः 006c
तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय 007a
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी 007c
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत 008a
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः 008c
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च 009a
कृतपुष्पोपहारेषु तीरान्तरगतेषु च 009c
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः 010a
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः 010c
तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः 011a
अभिषेकाय कौन्तेयो गङ्गामवततार ह 011c
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् 012a
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया 012c
अपकृष्टो महाबाहुर्नागराजस्य कन्यया 013a
अन्तर्जले महाराज उलूप्या कामयानया 013c
ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् 014a
कौरव्यस्याथ नागस्य भवने परमार्चिते 014c
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः 015a
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः 015c
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा 016a
प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् 016c
किमिदं साहसं भीरु कृतवत्यसि भामिनि 017a
कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा 017c
उलूप्युवाच 018
ऐरावतकुले जातः कौरव्यो नाम पन्नगः 018a
तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी 018c
साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् 019a
दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता 019c
तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन 020a
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः 020c
अर्जुन उवाच 021
ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् 021a
धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः 021c
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि 022a
अनृतं नोक्तपूर्वं च मया किञ्चन कर्हिचित् 022c
कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् 023a
न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे 023c
उलूप्युवाच 024
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् 024a
यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः 024c
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति 025a
यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् 025c
वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः 025e
तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् 026a
कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति 026c
परित्राणं च कर्तव्यमार्तानां पृथुलोचन 027a
कृत्वा मम परित्राणं तव धर्मो न लुप्यते 027c
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः 028a
स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन 028c
भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो 029a
न करिष्यसि चेदेवं मृतां मामुपधारय 029c
प्राणदानान्महाबाहो चर धर्ममनुत्तमम् 030a
शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम 030c
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः 031a
साहं शरणमभ्येमि रोरवीमि च दुःखिता 031c
याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् 032a
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि 032c
वैशम्पायन उवाच 033
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया 033a
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् 033c
स नागभवने रात्रिं तामुषित्वा प्रतापवान् 034a
उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् 034c