वैशम्पायन उवाच 001
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः 001a
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः 001c
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् 002a
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी 002c
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः 003a
बभूव परमप्रीता नागैरिव सरस्वती 003c
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु 004a
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः 004c
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते 005a
कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम 005c
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः 006a
आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् 006c
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः 007a
प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः 007c
ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते 008a
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति 008c
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते 009a
रोरूयमाणे च मयि क्रियतामस्त्रधारणम् 009c
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः 010a
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः 010c
श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् 011a
आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् 011c
कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः 011e
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः 012a
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः 012c
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः 012e
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः 013a
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः 013c
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः 014a
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् 014c
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे 015a
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् 015c
अनापृच्छ्य च राजानं गते मयि न संशयः 016a
अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् 016c
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम 017a
अधर्मो वा महानस्तु वने वा मरणं मम 017c
शरीरस्यापि नाशेन धर्म एव विशिष्यते 017e
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः 018a
अनुप्रविश्य राजानमापृच्छ्य च विशां पते 018c
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत 019a
ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः 019c
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह 020a
यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव 020c
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी 021a
शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् 021c
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः 022a
आजगाम पुरं वीरः सव्यसाची परन्तपः 022c
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः 023a
धर्मराजमुवाचेदं व्रतमादिश्यतां मम 023c
समयः समतिक्रान्तो भवत्सन्दर्शनान्मया 024a
वनवासं गमिष्यामि समयो ह्येष नः कृतः 024c
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् 025a
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया 025c
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् 025e
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ 026a
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् 026c
सर्वं तदनुजानामि व्यलीकं न च मे हृदि 026e
गुरोरनुप्रवेशो हि नोपघातो यवीयसः 027a
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः 027c
निवर्तस्व महाबाहो कुरुष्व वचनं मम 028a
न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता 028c
अर्जुन उवाच 029
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् 029a
न सत्याद्विचलिष्यामि सत्येनायुधमालभे 029c
वैशम्पायन उवाच 030
सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः 030a
वने द्वादश वर्षाणि वासायोपजगाम ह 030c