नारद उवाच 001
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ 001a
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः 001c
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् 002a
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ 002c
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन 003a
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव 003c
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः 004a
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः 004c
अन्तःपुरे वनोद्याने पर्वतोपवनेषु च 005a
यथेप्सितेषु देशेषु विजह्रातेऽमराविव 005c
ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले 006a
पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः 006c
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ 007a
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः 007c
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः 008a
गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे 008c
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती 009a
वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा 009c
नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती 010a
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ 010c
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ 011a
दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः 011c
तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता 012a
उभौ च कामसम्मत्तावुभौ प्रार्थयतश्च ताम् 012c
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना 013a
उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् 013c
वरप्रदानमत्तौ तावौरसेन बलेन च 014a
धनरत्नमदाभ्यां च सुरापानमदेन च 014c
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ 015a
मदकामसमाविष्टौ परस्परमथोचतुः 015c
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत 016a
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत 016c
नैषा तव ममैषेति तत्र तौ मन्युराविशत् 017a
तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् 017c
तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ 018a
अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः 018c
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले 019a
रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ 019c
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा 020a
पातालमगमत्सर्वो विषादभयकम्पितः 020c
ततः पितामहस्तत्र सह देवैर्महर्षिभिः 021a
आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् 021c
वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह 022a
वरयामास तत्रैनां प्रीतः प्राह पितामहः 022c
आदित्यचरिताल्ँलोकान्विचरिष्यसि भामिनि 023a
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन 023c
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः 024a
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः 024c
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ 025a
तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः 025c
तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् 026a
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते 026c
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ 026e
वैशम्पायन उवाच 027
एवमुक्ता महात्मानो नारदेन महर्षिणा 027a
समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः 027c
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः 027e
द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् 028a
स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् 028c
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः 029a
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः 029c
एवं तैः समयः पूर्वं कृतो नरदचोदितैः 030a
न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत 030c