नारद उवाच 001
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः 001a
जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् 001c
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः 002a
पितामहस्य भवनं जगतः कृपया तदा 002c
ततो ददृशुरासीनं सह देवैः पितामहम् 003a
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् 003c
तत्र देवो महादेवस्तत्राग्निर्वायुना सह 004a
चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः 004c
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः 005a
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः 005c
ऋषयः सर्व एवैते पितामहमुपासते 005e
ततोऽभिगम्य सहिताः सर्व एव महर्षयः 006a
सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे 006c
यथाकृतं यथा चैव कृतं येन क्रमेण च 007a
न्यवेदयंस्ततः सर्वमखिलेन पितामहे 007c
ततो देवगणाः सर्वे ते चैव परमर्षयः 008a
तमेवार्थं पुरस्कृत्य पितामहमचोदयन् 008c
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा 009a
मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् 009c
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् 010a
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः 010c
सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः 010e
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च 011a
निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः 011c
त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् 012a
समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः 012c
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् 013a
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् 013c
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा 014a
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् 014c
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा 015a
न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् 015c
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती 016a
जहार सर्वभूतानां चक्षूंषि च मनांसि च 016c
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता 017a
तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः 017c
पितामह उवाच 018
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे 018a
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् 018c
त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै 019a
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु 019c
नारद उवाच 020
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् 020a
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् 020c
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः 021a
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् 021c
कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् 022a
इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ 022c
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा 023a
अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् 023c
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् 024a
गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् 024c
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः 025a
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् 025c
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा 026a
तथा सहस्रनेत्रश्च बभूव बलसूदनः 026c
तथा देवनिकायानामृषीणां चैव सर्वशः 027a
मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा 027c
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् 028a
सर्वेषामेव भूयिष्ठमृते देवं पितामहम् 028c
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः 029a
कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा 029c
तिलोत्तमायां तु तदा गतायां लोकभावनः 030a
सर्वान्विसर्जयामास देवानृषिगणांश्च तान् 030c