नारद उवाच 001
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ 001a
मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा 001c
सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः 002a
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा 002c
गदापट्टिशधारिण्या शूलमुद्गरहस्तया 003a
प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया 003c
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः 004a
चारणैः स्तूयमानौ तु जग्मतुः परया मुदा 004c
तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ 005a
देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ 005c
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः 006a
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः 006c
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा 007a
खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ 007c
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ 008a
समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः 008c
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ 009a
सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः 009c
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः 010a
तेजो बलं च देवानां वर्धयन्ति श्रियं तथा 010c
तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् 011a
सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः 011c
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः 012a
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् 012c
यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः 013a
तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा 013c
आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् 014a
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः 014c
तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः 015a
नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः 015c
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव 016a
नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः 016c
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः 017a
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः 017c
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः 018a
शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा 018c
राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ 019a
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ 019c
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ 020a
संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् 020c
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ 021a
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः 021c
निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा 022a
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा 022c
हाहाभूता भयार्ता च निवृत्तविपणापणा 023a
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता 023c
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा 024a
अस्थिकङ्कालसङ्कीर्णा भूर्बभूवोग्रदर्शना 024c
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् 025a
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा 025c
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः 026a
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः 026c
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा 027a
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः 027c