नारद उवाच 001
शृणु मे विस्तरेणेममितिहासं पुरातनम् 001a
भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर 001c
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा 002a
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् 002c
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ 003a
सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः 003c
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ 004a
एकशीलसमाचारौ द्विधैवैकं यथा कृतौ 004c
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ 005a
त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् 005c
कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः 006a
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः 006c
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ 007a
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः 007c
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ 008a
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ 008c
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः 009a
धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् 009c
ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः 010a
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे 010c
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः 011a
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ 011c
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः 012a
भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा 012c
परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा 013a
स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः 013c
अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः 014a
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ 014c
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः 015a
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत 015c
ततः पितामहः साक्षादभिगम्य महासुरौ 016a
वरेण छन्दयामास सर्वलोकपितामहः 016c
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ 017a
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा 017c
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा 018a
आवयोस्तपसानेन यदि प्रीतः पितामहः 018c
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ 019a
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः 019c
पितामह उवाच 020
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति 020a
अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् 020c
करिष्यावेदमिति यन्महदभ्युत्थितं तपः 021a
युवयोर्हेतुनानेन नामरत्वं विधीयते 021c
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः 022a
हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् 022c
सुन्दोपसुन्दावूचतुः 023
त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् 023a
सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह 023c
पितामह उवाच 024
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् 024a
मृत्योर्विधानमेतच्च यथावद्वां भविष्यति 024c
नारद उवाच 025
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः 025a
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह 025c
लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ 026a
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ 026c
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ 027a
सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् 027c
ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः 028a
महार्हाभरणोपेतौ विरजोम्बरधारिणौ 028c
अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् 029a
दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः 029c
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति 030a
पीयतां दीयतां चेति वाच आसन्गृहे गृहे 030c
तत्र तत्र महापानैरुत्कृष्टतलनादितैः 031a
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् 031c
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् 032a
समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् 032c