जनमेजय उवाच 001
एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन 001a
अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः 001c
सर्व एव महात्मानः पूर्वे मम पितामहाः 002a
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत 002c
कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः 003a
वर्तमाना महाभागा नाभिद्यन्त परस्परम् 003c
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन 004a
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया 004c
वैशम्पायन उवाच 005
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः 005a
रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः 005c
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः 006a
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह 006c
जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः 007a
मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः 007c
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः 008a
आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च 008c
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु 009a
नारदस्त्वथ देवर्षिराजगाम यदृच्छया 009c
आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः 009e
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि 010a
प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् 010c
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् 011a
आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति 011c
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः 012a
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् 012c
श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता 013a
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह 013c
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी 014a
कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा 014c
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः 015a
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः 015c
गम्यतामिति होवाच भगवांस्तामनिन्दिताम् 015e
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् 016a
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः 016c
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी 017a
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् 017c
सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ 018a
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ 018c
एकराज्यावेकगृहावेकशय्यासनाशनौ 019a
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः 019c
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् 020a
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर 020c
युधिष्ठिर उवाच 021
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने 021a
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् 021c
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा 022a
यस्याः कामेन सम्मत्तौ जघ्नतुस्तौ परस्परम् 022c
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन 023a
श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः 023c