द्रुपद उवाच 001
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् 001a
ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो 001c
गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् 002a
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा 002c
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः 003a
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ 003c
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः 004a
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ 004c
युधिष्ठिर उवाच 005
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः 005a
यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् 005c
वैशम्पायन उवाच 006
ततोऽब्रवीद्वासुदेवो गमनं मम रोचते 006a
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् 006c
द्रुपद उवाच 007
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः 007a
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम 007c
यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् 008a
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः 008c
न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः 009a
यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः 009c
वैशम्पायन उवाच 010
ततस्ते समनुज्ञाता द्रुपदेन महात्मना 010a
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः 010c
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् 011a
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् 011c
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः 012a
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् 012c
विकर्णं च महेष्वासं चित्रसेनं च भारत 013a
द्रोणं च परमेष्वासं गौतमं कृपमेव च 013c
तैस्ते परिवृता वीराः शोभमाना महारथाः 014a
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा 014c
कौतूहलेन नगरं दीर्यमाणमिवाभवत् 015a
यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः 015c
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः 016a
उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः 016c
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् 017a
यो नः स्वानिव दायादान्धर्मेण परिरक्षति 017c
अद्य पाण्डुर्महाराजो वनादिव वनप्रियः 018a
आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः 018c
किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् 019a
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः 019c
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः 020a
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् 020c
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः 021a
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् 021c
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते 022a
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् 022c
विश्रान्तास्ते महात्मानः कञ्चित्कालं महाबलाः 023a
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च 023c
धृतराष्ट्र उवाच 024
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम 024a
पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश 024c
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् 025a
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा 025c
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश 025e
वैशम्पायन उवाच 026
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च 026a
प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः 026c
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् 026e
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः 027a
मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः 027c
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः 028a
नगरं मापयामासुर्द्वैपायनपुरोगमाः 028c
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् 029a
प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता 029c
पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च 030a
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा 030c
द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः 031a
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः 031c
विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः 032a
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः 032c
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् 032e
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् 033a
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् 033c
सुविभक्तमहारथ्यं देवताबाधवर्जितम् 034a
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः 034c
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत 035a
मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् 035c
तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् 036a
शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् 036c
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः 037a
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा 037c
वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः 038a
सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा 038c
उद्यानानि च रम्याणि नगरस्य समन्ततः 039a
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा 039c
पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा 040a
शालतालकदम्बैश्च बकुलैश्च सकेतकैः 040c
मनोहरैः पुष्पितैश्च फलभारावनामितैः 041a
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः 041c
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः 042a
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः 042c
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् 043a
मत्तबर्हिणसङ्घुष्टं कोकिलैश्च सदामदैः 043c
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः 044a
मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः 044c
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा 044e
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः 045a
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः 045c
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः 046a
तडागानि च रम्याणि बृहन्ति च महान्ति च 046c
तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् 047a
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत 047c
तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते 048a
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः 048c
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् 049a
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा 049c
तान्निवेश्य ततो वीरो रामेण सह केशवः 050a
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा 050c