धृतराष्ट्र उवाच 001
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः 001a
हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् 001c
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः 002a
तथैव धर्मतः सर्वे मम पुत्रा न संशयः 002c
यथैव मम पुत्राणामिदं राज्यं विधीयते 003a
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः 003c
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् 004a
तया च देवरूपिण्या कृष्णया सह भारत 004c
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा 005a
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः 005c
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः 006a
दिष्ट्या मम परं दुःखमपनीतं महाद्युते 006c
वैशम्पायन उवाच 007
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् 007a
सकाशं यज्ञसेनस्य पाण्डवानां च भारत 007c
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः 008a
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् 008c
स चापि प्रतिजग्राह धर्मेण विदुरं ततः 009a
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् 009c
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत 010a
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः 010c
तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् 011a
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः 011c
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् 012a
प्रददौ चापि रत्नानि विविधानि वसूनि च 012c
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते 013a
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः 013c
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः 014a
द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च 014c
राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम 015a
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः 015c
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः 016a
प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप 016c
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः 017a
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति 017c
भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव 018a
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति 018c
धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् 019a
कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः 019c
न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता 020a
यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह 020c
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् 021a
द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् 021c
विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः 022a
उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा 022c
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः 023a
द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः 023c
स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् 024a
गमनं सहदाराणामेतदागमनं मम 024c
विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु 025a
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् 025c
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया 025e