विदुर उवाच 001
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः 001a
न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति 001c
हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः 002a
भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च 002c
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् 003a
तच्च राधासुतः कर्णो मन्यते न हितं तव 003c
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् 004a
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः 004c
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च 005a
समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च 005c
धर्मे चानवमौ राजन्सत्यतायां च भारत 006a
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः 006c
न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन 007a
न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि 007c
ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि 008a
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ 008c
प्रज्ञावन्तौ नरश्रेष्ठावस्मिल्ँलोके नराधिप 009a
त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः 009c
इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन 009e
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् 010a
एतद्धि परमं श्रेयो मेनाते तव भारत 010c
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव 011a
तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः 011c
तेषु चेदहितं किञ्चिन्मन्त्रयेयुरबुद्धितः 012a
मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः 012c
अथ ते हृदये राजन्विशेषस्तेषु वर्तते 013a
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् 013c
एतदर्थमिमौ राजन्महात्मानौ महाद्युती 014a
नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः 014c
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ 015a
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते 015c
कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः 016a
शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि 016c
भीमसेनो महाबाहुर्नागायुतबलो महान् 017a
कथं हि युधि शक्येत विजेतुममरैरपि 017c
तथैव कृतिनौ युद्धे यमौ यमसुताविव 018a
कथं विषहितुं शक्यौ रणे जीवितुमिच्छता 018c
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः 019a
नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे 019c
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः 020a
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः 020c
द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः 021a
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः 021c
सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत 022a
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर 022c
इदं निर्दिग्धमयशः पुरोचनकृतं महत् 023a
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः 023c
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा 024a
तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् 024c
बलवन्तश्च दाशार्हा बहवश्च विशां पते 025a
यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः 025c
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप 026a
को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् 026c
श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः 027a
बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् 027c
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः 028a
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः 028c
उक्तमेतन्मया राजन्पुरा गुणवतस्तव 029a
दुर्योधनापराधेन प्रजेयं विनशिष्यति 029c