द्रोण उवाच 001
मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप 001a
धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः 001c
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः 002a
संविभज्यास्तु कौन्तेया धर्म एष सनातनः 002c
प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः 003a
बहुलं रत्नमादाय तेषामर्थाय भारत 003c
मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु 004a
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा 004c
सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा 005a
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत 005c
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् 006a
पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् 006c
हिरण्मयानि शुभ्राणि बहून्याभरणानि च 007a
वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु 007c
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ 008a
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च 008c
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह 009a
उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति 009c
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् 010a
दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह 010c
ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया 011a
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके 011c
एवं तव महाराज तेषु पुत्रेषु चैव ह 012a
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत 012c
कर्ण उवाच 013
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ 013a
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः 013c
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना 014a
ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् 014c
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा 015a
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् 015c
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः 016a
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति 016c
श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः 017a
आसीद्राजगृहे राजा मागधानां महीक्षिताम् 017c
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः 018a
अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा 018c
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा 019a
स लब्धबलमात्मानं मन्यमानोऽवमन्यते 019c
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च 020a
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा 020c
तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत 021a
तथा हि सर्वमादाय राज्यमस्य जिहीर्षति 021c
हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च 022a
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् 022c
किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता 023a
यदि ते विहितं राज्यं भविष्यति विशां पते 023c
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् 024a
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे 024c
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् 025a
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् 025c
द्रोण उवाच 026
विद्म ते भावदोषेण यदर्थमिदमुच्यते 026a
दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः 026c
हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् 027a
अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् 027c
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् 028a
कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः 028c