भीष्म उवाच 001
न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन 001a
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् 001c
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः 002a
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव 002c
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते 003a
तथा कुरूणां सर्वेषामन्येषामपि भारत 003c
एवं गते विग्रहं तैर्न रोचये सन्धाय वीरैर्दीयतामद्य भूमिः 004a
तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम् 004c
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि 005a
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः 005c
यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः 006a
कुत एव तवापीदं भारतस्य च कस्यचित् 006c
अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ 007a
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः 007c
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् 008a
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च 008c
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति 009a
तवाप्यकीर्तिः सकला भविष्यति न संशयः 009c
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् 010a
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् 010c
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव 011a
तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति 011c
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् 012a
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु 012c
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा 013a
दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः 013c
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् 014a
लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् 014c
न चापि दोषेण तथा लोको वैति पुरोचनम् 015a
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति 015c
तदिदं जीवितं तेषां तव कल्मषनाशनम् 016a
सम्मन्तव्यं महाराज पाण्डवानां च दर्शनम् 016c
न चापि तेषां वीराणां जीवतां कुरुनन्दन 017a
पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् 017c
ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः 018a
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः 018c
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे 019a
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् 019c