कर्ण उवाच 001
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः 001a
न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन 001c
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया 002a
निग्रहीतुं यदा वीर शकिता न तदा त्वया 002c
इहैव वर्तमानास्ते समीपे तव पार्थिव 003a
अजातपक्षाः शिशवः शकिता नैव बाधितुम् 003c
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते 004a
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत 004c
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते 005a
शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् 005c
परस्परेण भेदश्च नाधातुं तेषु शक्यते 006a
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् 006c
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः 007a
परिद्यूनान्वृतवती किमुताद्य मृजावतः 007c
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता 008a
तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् 008c
आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः 009a
न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् 009c
तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् 010a
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन 010c
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ 011a
यावन्न कृतमूलास्ते पाण्डवेया विशां पते 011c
तावत्प्रहरणीयास्ते रोचतां तव विक्रमः 011e
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः 012a
तावत्प्रहरणं तेषां क्रियतां मा विचारय 012c
वाहनानि प्रभूतानि मित्राणि बहुलानि च 013a
यावन्न तेषां गान्धारे तावदेवाशु विक्रम 013c
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः 014a
सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम 014c
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् 015a
राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम 015c
वसूनि विविधान्भोगान्राज्यमेव च केवलम् 016a
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते 016c
विक्रमेण मही प्राप्ता भरतेन महात्मना 017a
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः 017c
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते 018a
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ 018c
ते बलेन वयं राजन्महता चतुरङ्गिणा 019a
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् 019c
न हि साम्ना न दानेन न भेदेन च पाण्डवाः 020a
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि 020c
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् 021a
नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप 021c
वैशम्पायन उवाच 022
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् 022a
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् 022c
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने 023a
त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् 023c
भूय एव तु भीष्मश्च द्रोणो विदुर एव च 024a
युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया 024c
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः 025a
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा 025c