धृतराष्ट्र उवाच 001
अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् 001a
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति 001c
अतस्तेषां गुणानेव कीर्तयामि विशेषतः 002a
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः 002c
यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन 003a
राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे 003c
दुर्योधन उवाच 004
अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः 004a
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ 004c
अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः 005a
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः 005c
परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् 006a
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते 006c
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् 007a
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः 007c
अथवा कुशलाः केचिदुपायनिपुणा नराः 008a
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः 008c
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् 009a
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् 009c
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः 010a
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः 010c
तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः 011a
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः 011c
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे 012a
तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् 012c
ते जानमाना दौर्बल्यं भीमसेनमृते महत् 013a
अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः 013c
इहागतेषु पार्थेषु निदेशवशवर्तिषु 014a
प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे 014c
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् 015a
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् 015c
प्रेष्यतां वापि राधेयस्तेषामागमनाय वै 016a
ते लोप्त्रहारैः सन्धाय वध्यन्तामाप्तकारिभिः 016c
एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः 017a
तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते 017c
यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे 018a
तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् 018c
एषा मम मतिस्तात निग्रहाय प्रवर्तते 019a
साधु वा यदि वासाधु किं वा राधेय मन्यसे 019c