वैशम्पायन उवाच 001
ततो राज्ञां चरैराप्तैश्चारः समुपनीयत 001a
पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा 001c
येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना 002a
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः 002c
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली 003a
त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे 003c
न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः 004a
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः 004c
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा 005a
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत 005c
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता 006a
पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः 006c
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् 007a
कर्मणा सुनृशंसेन पुरोचनकृतेन वै 007c
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते 008a
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् 008c
अथ दुर्योधनो राजा विमना भ्रातृभिः सह 009a
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च 009c
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् 010a
तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् 010c
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः 011a
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् 011c
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् 012a
धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः 012c
एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् 013a
विविशुर्हास्तिनपुरं दीना विगतचेतसः 013c
त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः 014a
मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च 014c
धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् 015a
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् 015c
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् 016a
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् 016c
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते 017a
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः 017c
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् 018a
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत 018c
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया 019a
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः 019c
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु 020a
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा 020c
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् 021a
सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च 021c
तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् 021e
धृतराष्ट्र उवाच 022
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम 022a
सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता 022c
यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः 022e
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् 023a
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः 023c
वैशम्पायन उवाच 024
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत 024a
नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः 024c
ततो दुर्योधनश्चैव राधेयश्च विशां पते 025a
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा 025c
सन्निधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः 026a
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् 026c
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः 027a
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर 027c
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ 028a
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः 028c
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे 029a
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् 029c