वैशम्पायन उवाच 001
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु 001a
न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन 001c
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः 002a
नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः 002c
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला 003a
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः 003c
रूपलक्षणसम्पन्नां शीलाचारसमन्विताम् 004a
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् 004c
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ 005a
रोहिणी च यथा सोमे दमयन्ती यथा नले 005c
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती 006a
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु 006c
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता 007a
सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता 007c
अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा 008a
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः 008c
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च 009a
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् 009c
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः 010a
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ 010c
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते 011a
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् 011c
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् 012a
तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् 012c
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः 013a
मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च 013c
वासांसि च महार्हाणि नानादेश्यानि माधवः 014a
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च 014c
शयनासनयानानि विविधानि महान्ति च 015a
वैडूर्यवज्रचित्राणि शतशो भाजनानि च 015c
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः 016a
प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः 016c
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् 017a
रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् 017c
कोटिशश्च सुवर्णं स तेषामकृतकं तथा 018a
वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः 018c
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः 019a
मुदा परमया युक्तो गोविन्दप्रियकाम्यया 019c