द्रुपद उवाच 001
अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यतितं कार्यमेतत् 001a
न वै शक्यं विहितस्यापयातुं तदेवेदमुपपन्नं विधानम् 001c
दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं नेह किञ्चित् 002a
कृतं निमित्तं हि वरैकहेतोस्तदेवेदमुपपन्नं बहूनाम् 002c
यथैव कृष्णोक्तवती पुरस्तान्नैकान्पतीन्मे भगवान्ददातु 003a
स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेद परमं यदत्र 003c
यदि वायं विहितः शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः 004a
गृह्णन्त्विमे विधिवत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा 004c
वैशम्पायन उवाच 005
ततोऽब्रवीद्भगवान्धर्मराजमद्य पुण्याहमुत पाण्डवेय 005a
अद्य पौष्यं योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् 005c
ततो राजा यज्ञसेनः सपुत्रो जन्यार्थ युक्तं बहु तत्तदग्र्यम् 006a
समानयामास सुतां च कृष्णामाप्लाव्य रत्नैर्बहुभिर्विभूष्य 006c
ततः सर्वे सुहृदस्तत्र तस्य समाजग्मुः सचिवा मन्त्रिणश्च 007a
द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथाप्रधानाः 007c
तत्तस्य वेश्मार्थिजनोपशोभितं विकीर्णपद्मोत्पलभूषिताजिरम् 008a
महार्हरत्नौघविचित्रमाबभौ दिवं यथा निर्मलतारकाचितम् 008c
ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः 009a
महार्हवस्त्रा वरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः 009c
पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यथाविधि प्रभो 010a
क्रमेण सर्वे विविशुश्च तत्सदो महर्षभा गोष्ठमिवाभिनन्दिनः 010c
ततः समाधाय स वेदपारगो जुहाव मन्त्रैर्ज्वलितं हुताशनम् 011a
युधिष्ठिरं चाप्युपनीय मन्त्रविन्नियोजयामास सहैव कृष्णया 011c
प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपारगः 012a
ततोऽभ्यनुज्ञाय तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ 012c
क्रमेण चानेन नराधिपात्मजा वरस्त्रियास्ते जगृहुस्तदा करम् 013a
अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः 013c
इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीतमानुषम् 014a
महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि 014c
कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम् 015a
शतं रथानां वरहेमभूषिणां चतुर्युजां हेमखलीनमालिनाम् 015c
शतं गजानामभिपद्मिनां तथा शतं गिरीणामिव हेमशृङ्गिणाम् 016a
तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम् 016c
पृथक्पृथक्चैव दशायुतान्वितं धनं ददौ सौमकिरग्निसाक्षिकम् 017a
तथैव वस्त्राणि च भूषणानि प्रभावयुक्तानि महाधनानि 017c
कृते विवाहे च ततः स्म पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् 018a
विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह 018c