व्यास उवाच 001
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते 001a
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा 001c
ततो यमो दीक्षितस्तत्र राजन्नामारयत्किञ्चिदपि प्रजाभ्यः 002a
ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणात्प्रहीणाः 002c
ततस्तु शक्रो वरुणः कुबेरः साध्या रुद्रा वसवश्चाश्विनौ च 003a
प्रणेतारं भुवनस्य प्रजापतिं समाजग्मुस्तत्र देवास्तथान्ये 003c
ततोऽब्रुवल्ँलोकगुरुं समेता भयं नस्तीव्रं मानुषाणां विवृद्ध्या 004a
तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम् 004c
ब्रह्मोवाच 005
किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः 005a
मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् 005c
देवा ऊचुः 006
मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन 006a
अविशेषादुद्विजन्तो विशेषार्थमिहागताः 006c
ब्रह्मोवाच 007
वैवस्वतो व्यापृतः सत्रहेतोस्तेन त्विमे न म्रियन्ते मनुष्याः 007a
तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः 007c
वैवस्वतस्यापि तनुर्विभूता वीर्येण युष्माकमुत प्रयुक्ता 008a
सैषामन्तो भविता ह्यन्तकाले तनुर्हि वीर्यं भविता नरेषु 008c
व्यास उवाच 009
ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा देवा यत्र देवा यजन्ते 009a
समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम् 009c
दृष्ट्वा च तद्विस्मितास्ते बभूवुस्तेषामिन्द्रस्तत्र शूरो जगाम 010a
सोऽपश्यद्योषामथ पावकप्रभां यत्र गङ्गा सततं सम्प्रसूता 010c
सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्यावतिष्ठत् 011a
तस्याश्रुबिन्दुः पतितो जले वै तत्पद्ममासीदथ तत्र काञ्चनम् 011c
तदद्भुतं प्रेक्ष्य वज्री तदानीमपृच्छत्तां योषितमन्तिकाद्वै 012a
का त्वं कथं रोदिषि कस्य हेतोर्वाक्यं तथ्यं कामयेह ब्रवीहि 012c
स्त्र्युवाच 013
त्वं वेत्स्यसे मामिह यास्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या 013a
आगच्छ राजन्पुरतोऽहं गमिष्ये द्रष्टासि तद्रोदिमि यत्कृतेऽहम् 013c
व्यास उवाच 014
तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् 014a
सिंहासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि 014c
तमब्रवीद्देवराजो ममेदं त्वं विद्धि विश्वं भुवनं वशे स्थितम् 015a
ईशोऽहमस्मीति समन्युरब्रवीद्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् 015c
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो जहास शक्रं च शनैरुदैक्षत 016a
संस्तम्भितोऽभूदथ देवराजस्तेनेक्षितः स्थाणुरिवावतस्थे 016c
यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच 017a
आनीयतामेष यतोऽहमारान्मैनं दर्पः पुनरप्याविशेत 017c
ततः शक्रः स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् 018a
तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथञ्चित् 018c
विवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम् 019a
विवृत्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः 019c
स तद्विवृत्य शिखरं महागिरेस्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श 020a
स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे 020c
ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोऽभ्युवाच 021a
दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात् 021c
उक्तस्त्वेवं विभुना देवराजः प्रवेपमानो भृशमेवाभिषङ्गात् 022a
स्रस्तैरङ्गैरनिलेनेव नुन्नमश्वत्थपत्रं गिरिराजमूर्ध्नि 022c
स प्राञ्जलिर्विनतेनाननेन प्रवेपमानः सहसैवमुक्तः 023a
उवाच चेदं बहुरूपमुग्रं द्रष्टा शेषस्य भगवंस्त्वं भवाद्य 023c
तमब्रवीदुग्रधन्वा प्रहस्य नैवंशीलाः शेषमिहाप्नुवन्ति 024a
एतेऽप्येवं भवितारः पुरस्तात्तस्मादेतां दरिमाविश्य शेध्वम् 024c
शेषोऽप्येवं भविता वो न संशयो योनिं सर्वे मानुषीमाविशध्वम् 025a
तत्र यूयं कर्म कृत्वाविषह्यं बहूनन्यान्निधनं प्रापयित्वा 025c
आगन्तारः पुनरेवेन्द्रलोकं स्वकर्मणा पूर्वजितं महार्हम् 026a
सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थवच्च 026c
पूर्वेन्द्रा ऊचुः 027
गमिष्यामो मानुषं देवलोकाद्दुराधरो विहितो यत्र मोक्षः 027a
देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च 027c
व्यास उवाच 028
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह 028a
वीर्येणाहं पुरुषं कार्यहेतोर्दद्यामेषां पञ्चमं मत्प्रसूतम् 028c
तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् 029a
तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु 029c
तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम् 030a
स चापि तद्व्यदधात्सर्वमेव ततः सर्वे सम्बभूवुर्धरण्याम् 030c
स चापि केशौ हरिरुद्बबर्ह शुक्लमेकमपरं चापि कृष्णम् 031a
तौ चापि केशौ विशतां यदूनां कुले स्त्रियौ रोहिणीं देवकीं च 031c
तयोरेको बलदेवो बभूव कृष्णो द्वितीयः केशवः सम्बभूव 031e
ये ते पूर्वं शक्ररूपा निरुद्धास्तस्यां दर्यां पर्वतस्योत्तरस्य 032a
इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची 032c
एवमेते पाण्डवाः सम्बभूवुर्ये ते राजन्पूर्वमिन्द्रा बभूवुः 033a
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा 033c
कथं हि स्त्री कर्मणोऽन्ते महीतलात्समुत्तिष्ठेदन्यतो दैवयोगात् 034a
यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति 034c
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददामि ते वरमत्यद्भुतं च 035a
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् 035c
वैशम्पायन उवाच 036
ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः 036a
चक्षुर्दिव्यं प्रददौ तान्स सर्वान्राजापश्यत्पूर्वदेहैर्यथावत् 036c
ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान् 037a
बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श 037c
दिव्यैर्वस्त्रैररजोभिः सुवर्णैर्माल्यैश्चाग्र्यैः शोभमानानतीव 038a
साक्षात्त्र्यक्षान्वसवो वाथ दिव्यानादित्यान्वा सर्वगुणोपपन्नान् 038c
तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपान्प्रीतो राजा द्रुपदो विस्मितश्च 038e
दिव्यां मायां तामवाप्याप्रमेयां तां चैवाग्र्यां श्रियमिव रूपिणीं च 039a
योग्यां तेषां रूपतेजोयशोभिः पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः 039c
स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य 040a
नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम् 040c
व्यास उवाच 041
आसीत्तपोवने काचिदृषेः कन्या महात्मनः 041a
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती 041c
तोषयामास तपसा सा किलोग्रेण शङ्करम् 042a
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् 042c
सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् 043a
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः 043c
ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा 044a
पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शङ्करः 044c
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत 045a
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा 045c
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः 045e
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः 046a
तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते 046c
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति 046e
द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी 047a
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता 047c
स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे 048a
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता 048c
सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेन कर्मणा 049a
सृष्टा स्वयं देवपत्नी स्वयम्भुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व 049c