वैशम्पायन उवाच 001
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः 001a
प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् 001c
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः 002a
आसने काञ्चने शुभ्रे निषसाद महामनाः 002c
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा 003a
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः 003c
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः 004a
पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः 004c
कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः 005a
एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् 005c
व्यास उवाच 006
अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके 006a
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् 006c
द्रुपद उवाच 007
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः 007a
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम 007c
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः 008a
न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः 008c
अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति 009a
धर्मसन्देहसन्दिग्धं प्रतिभाति हि मामिदम् 009c
धृष्टद्युम्न उवाच 010
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ 010a
ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन 010c
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन 011a
अधर्मो धर्म इति वा व्यवसायो न शक्यते 011c
कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् 012a
पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन 012c
युधिष्ठिर उवाच 013
न मे वागनृतं प्राह नाधर्मे धीयते मतिः 013a
वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञचन 013c
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी 014a
ऋषीनध्यासितवती सप्त धर्मभृतां वर 014c
गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम 015a
गुरूणां चैव सर्वेषां जनित्री परमो गुरुः 015c
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति 016a
तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम 016c
कुन्त्युवाच 017
एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः 017a
अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् 017c
व्यास उवाच 018
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः 018a
न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् 018c
यथायं विहितो धर्मो यतश्चायं सनातनः 019a
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः 019c
वैशम्पायन उवाच 020
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः 020a
करे गृहीत्वा राजानं राजवेश्म समाविशत् 020c
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः 021a
विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ 021c
ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने 022a
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता 022c