वैशम्पायन उवाच 001
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् 001a
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः 001c
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् 002a
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत 002c
वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् 003a
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् 003c
कृष्णाहेतोरनुप्राप्तान्दिवः सन्दर्शनार्थिनः 004a
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान् 004c
अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् 005a
अपि नो भागधेयानि शुभानि स्युः परन्तप 005c
कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते 006a
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु 006c
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिन्दम 007a
ध्रुवं विवाहकरणमास्थास्यामि विधानतः 007c
युधिष्ठिर उवाच 008
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते 008a
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् 008c
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः 009a
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ 009c
याभ्यां तव सुता राजन्निर्जिता राजसंसदि 009e
यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता 010a
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ 010c
पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता 010e
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते 011a
भवान्हि गुरुरस्माकं परमं च परायणम् 011c
वैशम्पायन उवाच 012
ततः स द्रुपदो राजा हर्षव्याकुललोचनः 012a
प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् 012c
यत्नेन तु स तं हर्षं सन्निगृह्य परन्तपः 013a
अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् 013c
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा 014a
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः 014c
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् 015a
विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् 015c
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् 016a
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः 016c
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि 017a
यमौ च राज्ञा सन्दिष्टौ विविशुर्भवनं महत् 017c
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः 018a
प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् 018c
गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः 019a
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् 019c
ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः 020a
ममापि दारसम्बन्धः कार्यस्तावद्विशां पते 020c
द्रुपद उवाच 021
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम 021a
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश 021c
युधिष्ठिर उवाच 022
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति 022a
एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते 022c
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः 023a
पार्थेन विजिता चैषा रत्नभूता च ते सुता 023c
एष नः समयो राजन्रत्नस्य सहभोजनम् 024a
न च तं हातुमिच्छामः समयं राजसत्तम 024c
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति 025a
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् 025c
द्रुपद उवाच 026
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन 026a
नैकस्या बहवः पुंसो विधीयन्ते कदाचन 026c
लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः 027a
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी 027c
युधिष्ठिर उवाच 028
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् 028a
पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे 028c
न मे वागनृतं प्राह नाधर्मे धीयते मतिः 029a
एवं चैव वदत्यम्बा मम चैव मनोगतम् 029c
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् 030a
मा च तेऽत्र विशङ्का भूत्कथञ्चिदपि पार्थिव 030c
द्रुपद उवाच 031
त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः 031a
कथयन्त्वितिकर्तव्यं श्वः काले करवामहे 031c
वैशम्पायन उवाच 032
ते समेत्य ततः सर्वे कथयन्ति स्म भारत 032a
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया 032c